सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 367, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 367

३ ] प्रथमाध्याये तृतीयपादः ३१५
वेरिति सूत्रस्यानवकाशापत्तेः सावकाशनिरवकाशयोर्निरवकाशो विधिर्बलवानिति विलोप-
प्राथम्यबाधेनास्य व्यन्तत्वानपायाल्लोपो व्योरिति पूर्वसूत्रगतपदद्वयानुवृत्त्या व्यन्तस्य
वकारयकारयोर्लोप इति सूत्रार्थनिष्पत्तेर्व्यन्तत्वनिमित्तो यकारलोपो भविष्यतीति परि-
हारन्तरमाह—यद्वेति ।
वेरितीतिकरणाध्याहारेणैव योज्यम् । वेरिति योगविभागेन लोपो भविष्यतीत्युक्ते
कथमित्यपेक्षायां व्यन्तस्य वकारश्च यकारश्च लुप्यत इत्येवमर्थावगमादिति न केवलं
वल्परत्वनिमित्त एव वकारयकारयोर्लोपः किं तु व्यन्तत्वनिमित्तोऽपीति चकारार्थः । ननु
यकारलोपेऽप्यकारस्य ह्रस्वस्य पिति कृति तुगिति तुगागमापत्तेरनित्यमागमशासनमिति
स्मरणाद्वा तदकरणेऽपि शुद्धस्याकारस्यादन्तत्वात्प्रमाणपदसंहितायां वा दीर्घत्वापत्तेष्टाप्प्रत्य-
याभावेन याडाप इति तन्निमित्तयाडागमाभावात्कथं प्रामाणायामिति रूपसिद्धिरित्या-
शङ्क्याह — यलोपे चेति । शुद्धग्रहणेन तुगागमदीर्घत्वापादके निराकृते शुद्धस्याप्याद्यन्तवदे-
कस्मिन्नित्यन्तवत्कार्यसिद्ध्या टाप्प्रत्ययोत्पत्तिसमर्थनार्थम् -- तदन्तावधिकादित्युकम् । यः
शुद्धः परिशिष्टाकारः स एवान्तरूपो विधिः स्वार्थे कप्रत्ययः । तस्माददन्तरूपावधिभूतादतः
पश्चात् स्त्रियां विषये टाप् क्रियत इत्यर्थः । ननूपपदाकारसंहितायाः प्रथमातिक्रमकारणा-
भावेन पूर्वकार्यत्वादीर्घत्वापत्तेष्टाप्प्रत्ययानुत्पत्तिः स्यात् । पूर्वकरणे वा भ्रष्टवसरत्वेन
पश्चादप्यकार्यत्वात्प्रमाणेतिरूपं न सिद्धेदित्याशङ्क्याह—अक इति । एकपदाकार-
संहितायाः पदान्तरसंहितातः शीघ्रप्रतीतेर्दीर्घादीर्घयोश्च धातुप्रत्ययाकारयोर्दीर्घादेशस्यान्तरत-
मत्वातिशयाद्धातुह्रस्वाकारद्वयदीर्घादेशाच्छीघ्रप्रतीतेः पर्योर्धातुप्रत्ययगतयोरकारा-
कारयोरकः सवर्णदीर्घत्वं पूर्वं कृत्वा ततः पूर्वणाप्युपपदाकारेण अकः सवर्णदीर्घत्वं कृत्वा
प्रमाणेत्यनुगम्यत इति योज्यम् । तदितरेतराश्रयमित्युपसंहारभाष्यमपीतरेतरविरोधपरतया
पूर्ववद् व्याख्यातं भवतीत्याह—तदेतदिति ।
उपक्रमोपसंहारानुरोधेन वा विवरणभाष्यमेवेत रेतराश्रयपरमध्याहारेण व्याख्येय-
मित्याह—यद्वेति । प्रमाणायामित्यत्र स्पर्शने व्यामोहे स्मृतिः प्रमाणमित्यध्याहारः,
स्पर्शनं इत्यत्र स्मृतौ व्यामोहे स्पर्शनं प्रमाणमिति । [प्रमाणेत्याद्यमध्याहृतं भाष्यमिष्य-
माणाथंवेन व्याख्यायते रुदित्यपसंहारभाष्यं श्रुतावारोप्यमाणाप्रामाण्यपरतया व्याख्यातम् ।
एवं तथेत्यादिनां संहारभाष्यमावृत्त्या स्मृत्यप्रामाण्यसमानार्थत्वेन व्याख्यायेत्यध्याहृतं
स्पर्शने प्रमाणे इत्यादिभाष्यं श्रुतिप्रामाण्यास मर्थनार्थत्वे व्याख्यातम् । एतच्छ्रुतिप्रामाण्य-
पक्षेऽप्यन्योन्याश्रयस्य सुपरिहरत्वं स्मृतिप्रामाण्यपक्षेऽन्योन्याश्रयस्य दुःपरिहरत्वं वक्ष्यमाण-
मभिप्रेत्योक्तम्] । तत्राद्यश्लोकेनेष्यमाणार्थतयाध्याहृतं भाष्यं व्याख्याय, आरोप्यमाणार्थं-
तया पठितं व्याख्यातम् । द्वितीयेन समर्थ्यमानार्थतया पठितं व्याख्याय, निश्चीयमानार्थं-
तयाध्याहृतं भाष्यं व्याख्यातम् ।
ननु श्रुतिप्रामाण्यगतमितरेतराश्रयं सिद्धान्तवादिनोऽपि समानात्वान्नोग्द्भावनीयमित्या-
शङ्क्याह—तदिदमिति । तस्यैकत्रैवेतरेतराश्रयं तच्च सुपरिहरमिति भावः । अन्यतः