मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 360, कुल 804 में से
संदर्भ में पढ़ें१०८ मीमांसादर्शनम् [ सू०
ननु सङ्कर्षे व्रीहिभिरिष्ट्वा, व्रीहिभिरेव यजेत, यवेभ्यो यवैर्राष्ट्वा यजेतात्रीहिभ्य
इति वाक्यमुदाहृत्य किमनेनाग्रयणाभ्यासो विधीयते दर्शपूर्णमासयोर्वा द्रव्यनियम इति
सन्दिह्याग्रयणप्रकरणे पाठाद्यजेस्तद्विषयत्वप्रतीतेर्वाद्याग्रयणेनेष्ट्वा पुनव्रीह्याग्रयणेन यजेतेत्या-
ग्रयणाभ्यासविधिरयमिति व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेत यवेभ्य इत्यन्ताग्रयणाभ्यासः
प्रकरणादित्यनेन सूत्रेण पूर्वपक्षयित्वा अभ्यासविधौ प्राप्ते कर्मण्यभ्यासद्रव्यरूपानेकगुणविधानेन
वाक्यभेदापत्तेः कर्मान्तरविधौ च गौरवापत्तेः । प्रकृताग्रयणप्रकृतित्वेनोपस्थापिते दर्शपूर्णमा-
साख्ये कर्मणि व्रीहियवयोर्विकल्पेन प्राप्तयोर्यवव्रीह्याग्रयणावधिव्यवस्थाविधानार्थमेतद्वाक्य-
मिति दर्शपूर्णमासयोर्वान्तरालसंयोगान्न ह्यान्यत् अन्यक्रमं प्रत्यक्षं विद्यते [जै० ३।१।२५] इति
सूत्रेण सिद्धान्त यिष्यमाणत्वात्कथं — यावज्जीवं तैरेव यजेतेत्युक्तम् उच्यते । अग्निहोत्री वै
नानादयिता तस्याः पयसा जुहुयादित्याग्रयणेष्टेस्थाने अग्निहोत्रस्थाने अग्निहोत्रविशेष-
विधानात्तत्पक्षाश्रयणेनेह उक्तमित्यदोषः । अव्यवस्थितविकल्पोऽपि व्रीहियवयोरकृताग्रयण-
विषयतयैव व्याख्येयः । एतदेवोपसंहरति — नेति । यद्यपि समस्ताङ्गोपेतप्रधानविषयप्रयोग-
शास्त्रालोचनेनानुष्ठानं प्रवर्तते, तथापि तस्य प्रत्येकपदार्थावधारणपूर्वकत्वात् तस्य च विनि-
योगशास्त्राधीनत्वादालोचनमिहोक्तम् । प्रयोगशास्त्रस्य त्वनुष्ठानमात्रफलत्वेनाङ्गाङ्गिभावे
प्रमाणत्वाभावत्तदभिप्रायः प्रमाणशब्दो न युज्यते । यच्चात्यन्ताप्रामाण्यवादिमते पौर्वापर्यान-
वस्थानात्प्रामाण्यानवस्थानमुक्तम् । तदस्मिन्नपि विकल्पवादिमते प्रथमश्रुतिग्रहणेऽत्यन्त-
स्मृत्यप्रामाण्याङ्गीकरणेन पर्य॑नुयोगसाम्याद्विकल्पवादिना वा पौर्वापर्यानादरेऽत्यन्ताप्रामाण्य-
वादिनापि तदनादरेण परिहारसाम्यादवाच्यमित्याह — यच्चेति । पर्य॑नुयोगसाम्यमुपपा-
दयति — यदा हीति । ननु पर्य॑नुयोगसाम्येऽपि प्रथमं स्मृतिग्रहणे विरोधादर्शनेन मूलश्रुतेर-
वश्यकल्प्यत्वात्क्लृप्तायाश्च श्रुतेरत्यन्तबाधायोगात्पौर्वापर्यानादरेऽत्यन्ताप्रामाण्यसिद्धेः परि-
हारसाम्यं नास्तीत्याशङ्कयाह — कालान्तरेऽपीति । क्लृप्ताया अपि श्रुतेर्विरुद्धश्रुतिदर्शने
सत्यामावावधारणस्योक्तत्वादत्यन्ताप्रामाण्यवादिमतेऽपि पौर्वापर्यमकारणं तदनङ्गीकृतमेव
तु पौर्वापर्यस्य वलावलहेतुत्वमापाद्य विकल्पवादिना निरस्तमित्याशयः । किं च प्रथमं
स्मृतिग्रहणेऽपि पुरुषान्तरदृष्टया श्रुत्या तदानीमपि मूलश्रुत्यनुमानबाधाद्विकल्पो न युक्त
इत्याह — पूर्वेति । ननु पुरुषान्तरस्य विरुद्धश्रुतिदर्शनेऽपि स्वयमदर्शनात्कथं बाधोऽत
आह — पुरुषान्तरेति । एव तर्हि व्रीहियवश्रुत्योरपि पुरुषान्तरबाधेनाङ्गीकृतप्रामाण्यमपि
पुरुषं प्रत्यप्रामाण्यापत्तेः । सर्वान्प्रत्यप्रामाण्यं प्रसज्येतेति शङ्कते — यवेति । श्रुतेरनुष्ठा-
पकत्वमात्रमप्रामाण्यम्, न च पुरुषान्तराननुष्ठापकत्वेन पुरुषान्तरं प्रत्यनुष्ठपकत्वं बाध्यते ।
न चैवं पुरुषव्यवस्थया विकल्पानापत्तिः शङ्कनीया । पठ्यमानत्वाविशेषेण प्रमाणीकृतयव-
श्रुतिकमपि पुरुषं प्रति कालान्तरे यवश्रुतेः प्रामाण्याभ्युपगमादिति परिहरति —
उच्यत इति । प्रतियोगित्वेन व्रीहिश्रुतेरपि बुद्धिस्थत्वातयोरिति द्विवचनम् । ननु
स्मृत्यनुमिताया अपि श्रुतेः पुरुषान्तरगतिविरुद्धश्रुतिदर्शनेनानुष्ठापकत्वरूपं निमज्जनमात्रं
करिष्यते । नामावावधारणमित्याशङ्कयाह — स्मृति त्विति । सर्वेषां प्रथमस्मृतिग्रहणे
निष्प्रतिद्वन्दानुमानसिद्धः पश्चाद्विरुद्धश्रुतिदर्शने सति निमज्जनमात्रकल्पनं भवेदाप ।