मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 359, कुल 804 में से
संदर्भ में पढ़ें३] प्रथमाध्याये तृतीयपादः ३०५
कारैरेवं : प्रातरूपोदयं व्युषित, उदिते वेत्यादिवदङ्गविकल्पाङ्गीकरणात्पौर्वापर्यस्य
बलाबलकारणत्वं नास्तीत्याह—स्वशाखेति। जैमिनेरपि ‘न चैकं प्रतिशिष्यते’ इति
सर्वशाखोपसंहाराभिधानात्पौर्वापर्यस्य वलाबलकारणत्वमनभिमतमित्यागमविरोधो भवत्पक्षे
स्यादित्याह—सर्वेति । पौर्वापर्यस्य वलाबलकारणत्वाभावमुपसंहरति—तस्मादिति ।
मातापितृप्रणीतोपदेशवत्पौर्वापर्यश्रवणमनाश्रित्य सर्वान्पूर्वश्राविणः पश्चाच्छ्राविणश्च पुरुषां-
न्प्रति निर्विचिकित्समेव प्रामाण्यम् चैकं प्रतिशिष्यत इत्यनेन न्यायेन जिज्ञासुभिरभ्युपगन्त-
व्यमित्यन्वयः । पौर्वापर्यश्रवणानाश्रयणहेतुत्वेन बलाबलापर्यालोचनात्को वलावलहेतुत्वे हि
सति पौर्वापर्यश्रवणमाद्रियेत तस्य तु नित्यावस्थितासु शाखासु वस्तुतः पौर्वापर्यरहितास्वा-
त्मीयाशक्तिमात्रकारितत्वाद् बलाबल हेतुत्वं नास्तीत्यर्थः । आत्मीयाशक्तिमात्रकारितस्य
पौर्वापर्यस्य वलाबलहेतुत्वाभावे दृष्टान्तत्वेनैकवाक्यगतपूर्वोत्तरवर्णवदित्युक़्ते वर्णानां प्रत्ये-
कमप्रत्ययकत्वेनार्थप्रतीत्यर्थतया तत्पौर्वापर्यस्याशक्तिमात्रकारितत्वाभावेनादृष्टान्तत्वात्पदव-
दिति दृष्टान्तान्तरमुक्तम् । वेदकाक्यगतपदपौर्वापर्यस्य वेदो वा प्रायदर्शनादित्यत्र बलाबल-
हेतुत्वामिधानाल्लौकिकवाक्यगतपदपौर्वापर्यमत्र दृष्टान्तः । वर्णपौर्वापर्यमपि वलावलहेतुर्न
भवतीत्येतावता दृष्टान्तितम् ।
पौर्वापर्यस्य च वलावलहेतुत्वे तस्यानवस्थितत्वेन वलबलास्थानवस्थितत्वेन प्रामाण्या-
नवस्थानं स्यादित्याह—अन्यथा हीति । पौर्वापर्यस्य च वलाबलकारणत्वाभावे स्वोत्प्रेक्षा-
मात्रेण विकल्पभ्रान्त्यादिमूलत्वकल्पनया स्मृत्यप्रामाण्यमङ्गीक्रियमाणमर्द्धवैशसपरिहारार्थम-
विरोधेडप्यापादयेदित्याह—इत्थं चेति । ऐकरूप्यमेवोत्प्रेक्षितुं युक्तमित्याह—सर्वे चेति ।
प्रथमं स्मृतिय्रहणेऽपि पश्चाद्विरुद्धश्रुतिदर्शनेन पूर्वोत्पन्नमूलश्रुत्यनुमानबाधाद्विकल्पे सर्वदा
प्रामाण्यं प्रतिहन्येतेति परिहरति—उच्यत इति । अत्रैव दृष्टान्तमाह—यो हीति ।
द्वात्रिंशत्कृष्णलरजतपरिमाणं कार्षापणः, कूटाकूटविलक्षणविवेकज्ञानेन जनिता व्युत्पत्तिः—
कूटत्वनिश्चयो यस्य स तथोक्तः । ननु श्रुत्यर्थपरिग्रहणकाले मूलश्रुत्यनुमानबाधोऽपि पूर्वं
स्मृत्यर्थपरिग्रहकाले बाधाभावाद्विकल्पो भविष्यत्यत आह—न चास्येति ।
ननु द्वितीयप्रयोगे विरुद्धश्रुतिदर्शनेऽपि पूर्वोत्पन्नस्य मूलश्रुत्यनुमानस्य प्रतिबन्धायोगाद-
नुमितायाश्च श्रुतेरत्यन्तबाधानुत्पत्तेर्दुर्वारो विकल्पः स्यादित्याशङ्कते—ननु चेति । अप्रमित-
स्यार्थस्यानुष्ठातुमशक्यत्वादेकप्रयोगकालोत्पन्नायाश्च प्रमितेः प्रयोगान्तरकाले विनष्टत्वात्
तन्मूलस्य स्मरणस्यानुवृत्तावापि मूलप्रमाणालोचनं विना निश्चायकत्वायोगात्प्रतिप्रयोगमनुष्ठेय-
पदार्थविषयप्रमाणालोचनापेक्षणाद्वेष्टितोदुम्बर्यङ्गमिति प्रथमप्रयोगवेलायां स्मृतिमूलस्मृत्यनु-
मानान्निश्चितोऽपि, पुनः प्रयोगान्तरवेलायां कीदृश्योदुम्बर्यङ्गमित्याकाङ्क्षायां स्मृत्या
श्रुतिमनुमिमानो विरुद्धश्रुतिदर्शनान्निवार्यंत इत्यननुमितमूलायाः स्मृतेरत्यन्तबाधो विकल्पा-
ङ्गीकरणे प्रसज्येतेति परिहति—नैतदेवमिति । एतदेव याज्ञिकाचारेण द्रढयति—
यदि हीति ।