मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 325, कुल 804 में से
संदर्भ में पढ़ें० २ ] प्रथमाध्याये तृतीयपादः २७१
कीर्णशाखानेकप्रकरणस्थत्वेनोपलब्धियोग्यत्वेऽनुपलब्धिमात्रस्य चाभावासाधनत्वादविरोध-
मुक्त्वो विस्मरणमप्युपपद्यत इत्युक्तं तत्प्रलीनत्वनिमित्तानुपलम्भप्रतिपादनपरत्वेन तावत्सो-
पपत्तिकं व्याचष्टे—विस्मरणमपीति । नित्यत्वव्याघातापत्तेस्त्वेतत्—पक्षापरितोषाद्द्वितीयमा-
नशाखामूलत्वपक्ष एव स्मर्त्तव्यास्मरणात्तदभावमाशङ्क्य सामान्यतो वेदमूलत्वस्याभियुक्तैः
स्मरणाद्द्विज्ञेयस्य त्वनौपयिकत्वेनावश्यस्मर्त्तव्यत्वाभावादस्मरणमात्रस्य चाभावासाधकत्वांद-
विरोधप्रतिपादनपरतया स्वमतेन व्याचष्टे—यदा त्विति । तदुपपन्नत्वादित्युपसंहारभाष्यं
मन्वादीनां त्रैवर्णिकत्वेन सम्भवद्वेदसंयोगतया पूर्वंविज्ञानापत्तेरिदानीन्तनानां च त्रैवार्ण-
कानां स्मृतिमूलविशेषास्मरणस्यानुपलम्भस्य चोपपन्नत्वेनाभावासाधकत्वाद् ग्रन्थानुमाना-
विरोधोपसंहारार्थंतया स्पष्टत्वान्न व्याख्यातम् ।
स्मृतिप्रामाण्ये लिङ्गदर्शनstateन्युपन्यस्याष्टकालिङ्गो मन्त्रो भाष्यकृतोदाहृतः—
'यां जनाः प्रतिनन्दन्ति रात्रिधेनुमिवायतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥
अष्टकायै सुराधसे स्वाहेति । तस्याष्टकादेवताप्रतिप्रकाशकत्वादेषा वै संवत्सरस्य पत्नी
यदष्टकेति संवत्सरपत्नीं त्वसंस्तुत्याष्टकाप्रकाशकत्वाच्चाष्टकालिङ्गत्वं स्पष्टमेवेति, तदपि न
व्याख्यातम् ।
तथेति भाष्यं व्याचष्टे—तथेति । आक्षिपति—एतदिति । श्लोकं व्याचष्टे—न हीति ।
ननु धर्मप्रामाण्यमेवानेन प्रकारेणोक्तमिति शङ्कते—स्यादेतदिति । निराकरोति—तथा
सतीति । वेदमूलत्वानिराकरणार्थंस्तर्हि दृष्टार्थत्वोपन्यासो भविष्यतीत्यत आह—न चेति ।
वैदिकेष्वपि च सर्वत्र दृष्टार्थत्वस्योत्प्रेक्षितुम् शक्यत्वान्न तेनावैदिकत्वसिद्धिरित्याह—सर्वत्र
चेति । लोकपंक्तिः—लोकोपसंग्रहः, तदुत्पादकत्वरूपदानादेहंदृष्टार्थताध्यापनादेः शिष्यादि-
सहायोपादानोत्पादकत्वरूपा सवनस्यक्षत्रियवैश्यवधे ब्रह्महत्येति यागस्याहमरक्षणोत्पादकत्व-
रूपा कुटुम्बभरणस्य प्रीत्युत्पादकत्वरूपेत्यर्थः । पारमाधिक्यपि दृष्टार्थता नावैदिकत्वसाधि-
केत्याह--न चेति । दृष्टार्थत्वस्य वेदमूलत्वाविरोधित्वमुक्तमुपसंहरति—तस्मादिति ।
भवत्ववघातादीनां नियमाद्दृष्टार्थत्वाद्वेदमूलत्वं गुर्वंनुगमनादीनां तु कथमित्या-
शङ्क्याह—अतश्चेति । निष्पन्नविद्यैरप्यनुष्ठीयमानस्य गुर्वंनुगमनादेहंदृष्टार्थत्वायोगादवश्य-
कर्त्तव्यतान्यथानुपपत्तेरकरणनिमित्तप्रत्यवायपरिहार्यत्वावसायात्, तस्य चानन्यप्रमाणकत्वा-
द्वेदमूलत्वसिद्धिरित्याशयः ।
यत्तु दृष्टार्थत्वं भाष्यकृतोक्तम्, तदानुषङ्गिकमित्याह—दृष्टं चेति । निष्पद्यत इत्यनेनानु-
षङ्गिकत्वं दर्शितम् । दृष्टार्थत्वेऽपि वा नियमस्याहृष्टार्थत्वाद्वेदमूलत्वं सेत्स्यतीत्यभिप्रायेणाह--
नियमाश्चेति । षष्ठे च सकृदसकृदनुष्ठानविचारात्सूत्रकारस्यापि केवलदृष्टार्थत्वाभिप्रायो
लक्ष्यत इत्याह-एवं चेति । गुरुगमनावृत्तौ तदनुगमनमावर्त्तनीयं न वेति सन्दिह्य गुरुगमनस्य
निमित्तत्वाभावेऽपि, तदभावेऽनुगमनस्यासम्भवात् कालेऽनुष्ठेयत्वोपपत्तेर्निमित्तत्वे प्रमाणा-
१८