सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 258, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 258

२०६ मीमांसादर्शनम् [ सू०
ननु अस्तु श्रुत्यविनियुक्तानां बर्हिर्देवत्यादिमन्त्राणामर्थाभिधानार्थता श्रुति-
विनियोज्यानां त्वर्थपरत्वे लिङ्गादेव विनियोगसिद्धेः विनियोजकशास्त्रानर्थक्यं
स्यादिति शङ्कते-नन्विति । निगूढाभिप्रायः परिहरति-काममिति । दृष्टो-
पकाराविरोधेन विनियोजकशास्त्रस्य विषयान्तरं कल्पनीयमिति निगूढो-
भिप्रायः ॥३२॥
त० वा०-मन्त्रोच्चारणं तावदक्षरग्रहणेन निराकाङ्क्षोकृतं न साक्षात्क्र-
त्वङ्गत्वं प्रतिपद्यते । अक्षराणां च द्रव्यवदनितिकर्तव्यतात्मकत्वात्प्रकरणेना-
ग्रहणम् । एवं पदार्थज्ञानस्य वाक्यार्थप्रत्ययेन नैराकाङ्क्ष्यादग्रहणम् । वाक्यार्थ-
प्रत्ययस्त्वकृतार्थः प्रकरणे विपरिवर्तमानः क्रियात्मकत्वात्प्रयोगवचनाकाङ्क्षितः
कर्मसमवेतानुष्ठानस्य मानार्थस्मृतिफलत्वेनेतिकर्तव्यता भवति । तत्रादृष्टकल्पना-
निमित्ताभावः । समाम्नानान्यथानुपपत्त्या हि तत्कल्प्येत, नोपपन्नेऽर्थवत्त्वे ।
यद्यपि च तत्कल्पनावसरो भवेत्, तथाऽपि कामं वाक्यार्थप्रत्ययादेव न त्वौपायि-
कार्थप्रतीतिनिराकाङ्क्षाद्वाक्यात् । अवश्यं च दृष्टादृष्टयोर्विनियुज्यमानस्य प्रमाण-
मुपन्यसितव्यम् । इह च प्रकरणाददृष्टार्थता लिङ्गाच्च दृष्टार्थता । न च प्रकरण-
मशक्येऽर्थे विनियोक्तुमर्हतोत्येकान्तेनैतदापतति-यच्छक्नुयात्तन्मन्त्रेण कुर्या-
दिति । न चासावदृष्टं शक्नोतीति लौकिकं वैदिकं वा प्रमाणं विद्यते । तस्मादु-
भयोलिङ्गाप्रकरणयोर्दृष्टार्थप्रयोगेणैकवाक्यता । एवं च सति याज्ञिकप्रयोग-
प्रसिद्धेर्न मूलान्तरकल्पनाक्लेशो भविष्यति । अतः स्वाभाविकमेवार्थप्राधान्यम-
वस्थितम् । नैवमिति । न दृष्टोऽर्थो निर्वृत्त इत्येतावत्तैव तादर्थ्यमवसोयते ।
पुरुषार्थानुपयोगेन स्वाध्यायाध्ययनविधेरानर्थक्यात् । न च बुद्धशास्त्राविद्यमान-
वचनार्थबन्धनान्मन्त्रार्थोपयोगः । तत्र यदि दूरेऽप्यदृष्टकल्पनातो न मुच्यामहे
ततोऽतिक्रमणा भावादुच्चारणादेव कल्पनीयम् । उभयवादिसिद्धत्वादुच्चारण-
कर्तव्य तायास्तत्प्रभवत्वाच्चादृष्टकल्पनस्य ।
तत्रोच्यते यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनमिति । यद्यपि लोकवत्तैर्न संव्य-
वहारः तथाऽपि तत्तत्स्वरूपप्रकाशनमात्रमेवानुष्ठातृणामुपकरिष्यति । अतश्च
यावन्मात्रमेवानौपयिकं सम्बोधनादि, कामं तन्न विवक्ष्येत, न तु तद्वशेन सर्वमेव
त्यक्तव्यं न ह्यैकरूप्यं नाम केनचिन्नियतम् । तस्माद्यथादर्शनाभ्युपगमाद्बर्हिर्देव-
सदनं दामीत्येवमादीनां तावदविहतगर्थप्राधान्यम् । तां चतुर्भिरादत्त इत्यत्रादि
वदामः ॥३२॥
न्या० सु०-- सिद्धान्तसूत्रव्याख्यानार्थमविशिष्टस्त्वितिभाष्यं प्रतीतिमात्रेण विवक्षा-
नुपपत्तेरयुक्तम शङ्क्योपपादयति-मन्त्रेति । अयमाशयः-मन्त्रोच्चारणस्य कर्माङ्गत्वं
प्रयाजादिवत्साक्षाद्वाभ्युपगम्यते प्रोक्षणादिवद्वा । मन्त्रद्वारेण साक्षादप्यङ्गत्वं प्रकरणेन वा,