सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 257, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 257

३२ ] प्रथमाध्याये द्वितीयपादः। २०५
वा स्याद् अध्ययनविधिसामर्थ्येन वा ? न तावत् प्रकरणेन कर्मप्रकरणे मन्त्रो-
च्चारणस्याप्यविधानात् नाप्यध्ययनविधिसामर्थ्येन यथास्थितवेदाध्ययनविधा-
नात् कर्मप्रकरणपठितानामपि तत्रैवाध्ययनं विदधता तन्नियमार्थवत्त्वाय
कर्माङ्गत्वमाक्षिप्यते, मन्त्राङ्गत्वनिर्वाहाय कल्पनीयस्योच्चारणस्याक्षरग्रहण-
निराकाङ्क्षस्य साक्षात्कर्माङ्गत्वयोगात् । नापि मन्त्रद्वारेणोच्चारणस्य कर्माङ्गत्वं
मन्त्राणामक्रियारूपत्वेन प्रकरणाग्राह्यत्वात् अक्षरग्रहणाधीनपदपदार्थज्ञानयोरांप
वाक्यार्थप्रत्ययनिराकाङ्क्षयोर्न प्रकरणग्राह्यत्वसम्भवः वाक्यार्थप्रत्ययोऽपि शास्त्रा-
र्थविधारणवेलायामुत्पद्यमानोऽनुष्ठास्यमानार्थस्मृतिहेतुत्वान्न साक्षात्कर्माङ्गत्व-
मश्नुवीत, तेनानुष्ठानौपयिकार्थप्रत्ययनिराकाङ्क्षाक्यादेवदृष्टादृष्टकल्पनानुपपत्तेः
अर्थप्रत्ययपर्यन्तादेव मन्त्रोच्चारणाददृष्टं नियमरूपं कल्पनीयमिति मन्त्रोच्चा-
रणस्याक्षरग्रहणादिपरम्परयानुष्ठास्यमानार्थस्मृतिहेतुत्वेन दृष्टार्थत्वोपपत्तेः न
केवलादृष्टार्थत्वकल्पना युक्तेति हृदयम् । यथा लौकिकैरर्थैः शब्दावगतेः
व्यवहारः नैवं वैदिकैः, अतः समवेतार्थत्वाभावाददृष्टार्थतैव मन्त्राणामिति वैषम्यं
शङ्कते--नैवमिति । यज्ञाङ्गैरचेतनैरिति । ओषधिग्रावप्रभृतिभिरित्यर्थः, अप्रत्य-
क्षाभिरचेतनैरिति च विशेषणव्यवहारयोग्यत्वसिद्धये यद्यप्ययोग्यैस्संलापो न
दृष्टमुपकारं करोति, तथाप्यदृष्टार्थो भविष्यत्यत आह-यदििति । अर्थविवक्षा-
सम्भवेनाभिधानस्यादृष्टार्थत्वकल्पनायामुच्चारणादेव तत्कल्पनं वरमित्यभिप्रायः,
कस्मादेवम् ? इत्यत आह--यद्धीति । यदवश्यकर्तव्यमुच्चारणं तद्धि प्रयोजन-
वद्युक्तं यस्मादित्यर्थः । उच्चारणस्यावश्यकत्वं प्रतिपादयति-न कथञ्चिदिति ।
कर्तव्यमुच्चारणमित्यनुषङ्गः, अदृष्टायार्थाभिधानाय वा कर्तव्यमित्यर्थः ।
नतूच्चारणवदर्थाभिधानमपि कर्तव्यमेवेत्याशङ्क्य यथाकर्मकाला प्रयोज्यत्वे
मन्त्राणां समाम्नानाथैक्यं न तथार्थप्रत्यायनशून्यत्वे अदृष्टफलोच्चारणार्थतयाप्य-
ध्ययनोपपत्तेरित्याह-यदर्थ इति । उच्चारणस्यैवावश्यकत्वे सिद्धे फलितमाह-
तस्मादिति । उच्चारणस्यैवापूर्वार्थत्वं तदर्थशास्त्रादित्यादिभिरप्युक्तमित्याह-
तच्चेति । शङ्कितं वैषम्यं परिहरति - तदित्यादिना । असमवेतार्थत्वेनादृष्टार्थ-
त्वमुक्तं स्मारयति - नन्विति । देवस्य त्वेत्यादाविव समवेतशेषतयोपयोगदभि-
धानार्थत्वमेव चतुरश्रमिति परिहरति - यज्ञ इति ।
ननु तत्प्रकाशनमपि कथं प्रयोजनमिति पृच्छति--कथमिति । अनुष्ठानो-
पयोगादित्यत्तरमाह--नहीति । यज्ञग्रहणं दृष्टान्तार्थं तेन यागनिर्वृत्त्यर्थस्य
प्रकाशनस्य समञ्जसं कर्मोपकारकत्वमित्याह--तस्मादिति । स्पष्टं च यज्ञाङ्ग-
प्रकाशनं मन्त्रः करोतीति गम्यत इत्याह--तच्चेति । तेन बर्हिर्देवसदनं दामी-
त्यादेस्सिद्धं प्रयोजकत्वमित्याह--तस्मादिति । न चैतस्मिन् दृष्टे सम्भवत्यदृष्ट-
कल्पना साध्वीत्याह--तच्चेति । निगमयति-तेनेति ।