मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 243, कुल 804 में से
संदर्भ में पढ़ें३१ ] प्रथमाध्याये द्वितीयपादः १९१
ओषधे त्रायस्व, शृणोत ग्रावाण इति च सम्बोधनं कार्यनियोगाभिमुख्य-
करणार्थम् । न चाचेतनस्याऽऽभिमुख्यं सम्भवति । न च पशुत्राणे, प्रातरनुवाक-
श्रवणे वा प्रैषणे प्रवृत्तिरुपपद्यत इत्यानर्थक्यमर्थविवक्षायाम् ।
द्युत्वमन्तरिक्षत्वं चादितेः, एकानेकत्वं च रुद्रस्य विप्रतिषिद्धम् । न चैवं
विप्रतिषिद्धोऽर्थः कर्मोपयिकः । कथं वाऽदितिर्देवताऽन्तरिक्षं द्यौर्वा भवेत् । न
च स्तुत्यर्थतयाऽपि हेतुद्वयं परिहर्तुं शक्यम् । ब्राह्मणे हि विधिशेषभूताः
स्तुतयोऽर्थवन्त्यो भवन्ति । मन्त्रस्तुतिस्त्वप्रयोजनत्वान्नाऽऽदर्तव्या ।
स्वाध्यायाध्यनस्य कर्मार्थत्वाद्यत्कर्मण्युपयोक्ष्यते, तदभ्यसितव्यम् । तच्चैवं
विद्वांसः सन्तो वृद्धाः शिष्यानक्षरावधारण एव प्रवर्तयन्ति, सन्निहितेऽप्यर्थे न
तद्वचनाभ्यासे । तेनावश्यं तेषामुच्चारणमेवाङ्गत्वेनाभिप्रेतमिति ।
केचित्पदार्था ज्ञानेनाविज्ञेयाः । केषाञ्चित्तु वाक्यार्थ एव न ज्ञायते । न च
मन्त्रार्थः सत्तामात्रेणोपकरोति, क्रियावेलायामस्मर्यमाणमिति यदेकान्तेन शक्यं
कर्तुमुच्चारणम्, तदेव कार्यमित्यवधार्यते ।
अर्थप्रकाशनपक्षे यस्य योऽर्थः, स एव तेन प्रकाशयितव्यः । केचिच्च।नित्यैर-
कर्माङ्गभूतैश्चार्थैरर्थवन्तो मन्त्रा लक्ष्यन्ते । यथा किं ते कृण्वन्ति कीकटेषु गाव
इति । अयं हि दृढेनाध्येतॄणां स्मरणेन विश्वामित्रस्याऽऽर्षं गम्यते । तेन किल
कर्मार्थं धनं प्रार्थयमानेनेन्द्रोऽभिहितः । त्रैलोक्याधिपते याः कीकटेषु जनपदेषु
गावस्तास्तव किं कुर्वन्ति ? ते हि नास्तिकाः किं क्रतुनेति वदन्तो न किञ्चित्
कर्मानुतिष्ठन्ति । अतश्च ता नाऽऽशिरं सोमसंस्कारार्थं दुहत, न घर्मं तपन्ति ।
न घर्मतपने पयोदानेन साधनीभवन्ति । तस्मात्प्रमगन्दस्य कीकटाधिपतेर्यद्देवो
धनम्, तदस्माकं नैचाशाखं नगरमाभर । हृह्रोर्भश्छन्दसीति भकारः ।
अथ वाऽस्मान्प्रति तद्विभृहि—धारय पोषय चेत्येतन्नो मघवन्त्राधया
साधयास्माकमिति । छान्दसं दीर्घत्वम् । यद्येतद्विवक्षितम्, तथा सत्यादिमदर्थाभि-
धानाद्वेदस्य कृत्रिमत्वेनाप्रामाण्यं प्रसज्यते । न चान्यो मन्त्रार्थः शक्यते वक्तुम्,
प्रतीतेः । अतोऽर्थसदसद्भावमनादृत्याक्षरोच्चारणं फलवदाश्रयणीयमिति ॥३१॥
अथ चतुर्थं मन्त्राधिकरणम्
ग्रन्थान्तरे त्वदर्श्यैकं सूत्रं तत्सिद्धिसूत्रवत् ।
व्याख्यायै खण्डशोऽपाठि भाष्यकारादिभिस्त्विदम् ॥
न्या० सू०—किमर्थवन्तो मन्त्रा, उतानर्थका इति वृत्त्यन्तरकारोपन्यस्तसन्देहत्यागेन
भाष्यकारीयस्य सन्देहान्तरोपन्यासस्य कारणं परोपन्यस्तसन्देहस्य दुष्टत्वं वक्तुमुपन्यासं
तावत् करोति—इहेति । मन्त्रानर्थक्यमित्यानर्थक्यश्रवणं भ्रान्तिकारणमुक्तं दूषयति—
तत्त्विति । समुद्रो वा महासत्व इति वदिवार्थे वाशब्दः ।