मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 242, कुल 804 में से
संदर्भ में पढ़ें१९० मीमांसादर्शनम् [ सू०
अग्निमूर्धेति योऽर्थः प्रतीयते, स मूर्धाग्निरित्यनेनापीत्यनर्थको नियमः । यस्य
त्वहृष्टार्थता, तस्य क्रमान्यत्वे तदुच्चारणजन्यादृष्टप्रमाणाभावात्क्रमान्यत्वं न
युक्तमिति नियमार्थवत्ता । अथ नियतप्रत्ययनाददृष्टं कल्प्येत, तदुच्चारणा-
देवोपपद्यते, तदधीनत्वान्नियतप्रतीतेः । यस्तु दृष्टार्थेषु प्रकृतिप्रत्ययसमासेषु
नियमो दृश्यते । यथेन्द्राग्नी नीलोत्पलं राजपुरुषश्चित्रगुर्निष्कौशाम्बिरिति ।
युक्तं यत्र विपर्ययेऽपशब्दार्थान्यत्वानर्थक्यप्रसङ्गात् । अजाद्यदन्तविशेषणत्वादि-
निमित्तो हि तत्र नियतः पूर्वनिपातः स्मर्यते । तेनाग्नीन्द्रावित्यसाधुत्वं पुरुषराज
इत्यर्थान्यत्वं कौशाम्बिनिरित्यनर्थकत्वम् । यस्त्वग्नीन्द्राविति क्वचित्प्रयोगः, स
च्छान्दसोऽग्नेर्वाऽभ्यर्हितत्वस्य विवक्षयेति मन्तव्यम् । तुल्यकक्षार्थप्रतीता-
विन्द्राग्नीपदमेव व्यवस्थितम् । नन्विहापि क्रमान्यत्वादमन्त्रत्वं स्यात् ।
तदेवार्थपरत्वे सति तद्विनाशे तु किं निमित्तमिति न विद्मः । तेन मन्त्रप्रसिद्धौ
वाक्यनियमादित्यपि सूत्रम् । अथ वाऽस्तवप्रकरणाधीतवाक्यनियमात् । न ह्यर्था-
भिधानेऽन्यदीयस्याऽऽत्मीयस्य च विशेषः ।
अथ वा मन्त्रपौरुषेयवाक्ययोस्तुल्येऽर्थाभिधानसामर्थ्ये मन्त्रवाक्य-
नियमोऽदृष्टार्थः ।
अथ वाऽनेकध्यानादिस्मरणोपायप्रसङ्गे वाक्यनियमात् । न हि दृष्टेऽर्थे
मन्त्रस्य ध्यानादेर्वा कश्चिद्विशेष इत्यहृष्टार्थता ।
न ह्यविद्वान्विहितोऽस्तीति (जै०सू० ३।८।८) इत्यवश्यं तावदग्नीध्राऽऽत्मीयाः
पदार्थाः प्रागेव कर्मप्रक्रमादवगन्तव्याः । तत्र प्रैषः पिष्टपेषणन्यायेनार्थं ज्ञापयितु-
मशक्नुवन्नहृष्टार्थो भवति । अथ स्मारको मन्त्र इत्युच्यते । तदपि नास्ति ।
ब्राह्मणज्ञानाभ्यासपाटवनििमत्तसंस्कारादेव तत्सिद्धेः । संस्काराभिव्यक्तिहेतुरपि
पूर्वपदार्थसमाप्तिर्ब्राह्मणमेव वा भविष्यति, नार्थो मन्त्रैः । तत्र यदुच्यते संस्कार-
विशेषो भविष्यतीति, नासावहृष्टादन्यः सम्भवत्यतः पूर्वपक्षापत्तिः । यदि हि
प्रतीतोऽप्यर्थो नैव दृष्टं साधयति, ततो यत्तद् दूरमपि गत्वाऽवश्यं कल्पनीयम्,
तदुच्चारणादेव वरमिति ।
न चतुःशृङ्गादि किञ्चित्कर्म, तत्सम्बन्धि वा प्रकृतौ, विकृतौ वा विद्यते ।
यद्यपि च गुणवादेन किञ्चित्स्यात्, तथाऽपि तदनुष्ठानाभावान्न तत्स्मृत्या कार्यम् ।
न च ज्ञायते क्व प्रदेशे प्रयुज्यतामिति । तत्र मन्त्रपाठक्रमानुरोधेनोच्चारणमापत-
तीति सिद्धः पूर्वः पक्षः । मा मा हिंसीर्मा मा सन्ताप्तमित्यादीनि वेदिहविर्धाना-
दिविषयत्वादचेतनेऽर्थेबन्धनादित्यत्राप्युदाहरणम् । इह त्वप्रसक्तायां हिंसायां
प्रतिषेधानर्थक्यम् ।