मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 207, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये द्वितीयपादः १५५
श्रपयितव्यः, स दैवत्तत्वायैति (तै०सं०२।६।३) इति । यदि स्तुतिर्दर्शपूर्णमासयोरेव
शृतः स्ताविष्यते । तथा सम्भवन्नपकर्षो न कल्प्येत । अपकृष्यते इत्यपकर्षः ।
विधिपक्षे तु यत्र नैर्ऋतः, तत्र विदग्धता नीयेत । तथा सति प्रकरणं बाधितं
भवेत् । दर्शपूर्णमासकर्म प्रति नैर्ऋताभावाद् विदग्धविधानमनर्थकं स्यात् ।
तस्मात्स्तुतिरेव ॥ २४ ॥
भा० वि०---फलविधिसरूपाणामर्थवादत्वे हेत्वन्तरं दर्शयितुं प्रकरणे चेति
सूत्रम् । तत्र चशब्दार्थमाह--इतश्चेति । न केवलमप्सु योन्त्याद्यर्थवादसामान्यादि-
तरेषां स्तुतित्वं वाक्यान्तरसामान्यादपीत्यर्थः । किं तद्वाक्यान्तरमिति मन्वानः
पृच्छति---कुत इति । वाक्यमुदाहरति--इदमिति । कथमस्य वाक्यस्य स्तुतित्वं
येन तत्सामान्यादितरेषु तथात्वं स्यादित्याशङ्क्य प्रकरणे च सम्भवन्निति
व्याचष्टे--यदीति । शृतः पुरोडाशादिः स्ताविष्यते, स्तुतो भविष्यति प्रकरण-
निवेशाय स्तुतित्वाश्रयणं युक्तमिति भावः ।
ननु माभून्निवेशः पूषानुमन्त्रणमन्त्रवदुत्कृष्यतामत आह--तथेति । प्रकरण-
विनिवेशितया सम्भवन्नित्यर्थः, नन्वयमपकृष्यमाणः कल्प्यतेऽर्थवादः नापकर्षस्त-
त्राह--अपकृष्यत इति ।
ननु विधित्वेऽप्यनपकृष्यमाणोऽस्त्वित्याशङ्क्य, तत्र किं यथाश्रुतैव वचन-
व्यक्तिः यो विशेषेण दग्धः स निर्ऋतिदेवताकः कार्य इति, किं वा यो नैर्ऋतस्स
विशेषेण दह्य इति व्यत्ययेन । तत्राद्ये कल्पेऽनेन दर्शपूर्णमासप्रकरणगतेन विध्यु-
द्देशेन देवतान्तरविधानात् उत्पत्तिवाक्यशिष्टाग्न्यादिदेवतापकर्षणं स्यात्, तच्च
सम्भवत्प्रसजदपकर्षणं सति गत्यन्तरे न कल्पनीयमिति सूत्रयोजनया दूषणं
वक्तव्यमिति मत्वा द्वितीये दोषमाह--विधीति । नयने दोषमाह - तथेति ।
ननु किमिति नीयते येन प्रकरणाम्नानविरोध इत्याशङ्क्य विधानार्थक्य-
मित्यादि सूत्रावयवं व्याचष्टे--दर्शेति । सूत्रे तमिति प्रकरणिनोऽर्थस्थस्य परा-
मर्शः दर्शपूर्णमांसयोर्निर्ऋतिदेवताभावात्नैर्ऋतानुवादेन विदग्धताविधानमनर्थक-
मित्यर्थः, तेन प्रकरणे निवेशाय विदग्धवाक्यस्य स्तुतित्वे फलविधिसरूपाणा-
मपि तथैव स्तुतित्वमिति मत्वोपसंहरति--तस्मादिति ॥ २४ ॥
त० वा०-विधिपक्षे चायमपरो दोषो यदि तावद्यथावस्थितवाक्यग्रहणं
ततः प्रकरणगतविदग्धोद्देशेन देवतान्तरविधानादुत्पत्तिवाक्यशिष्टदेवतापकर्षणं
स्यात्, इयं वा तामप्यपकर्षतीत्यपकर्षः । तत्र नैमित्तिकत्वादभ्युदितेष्टिवद्वाधोऽपि
कल्प्येत, यदन्यथा न सम्भवेत्, सति तु सम्भवे न युक्तमेतत् । अथैतद्दोषभीतेरर्थं-
लभ्यवचनव्यक्त्यन्तरं व्यवहितकल्पनयाऽऽश्रीयेत यो नैर्ऋतः स विदग्धः कर्तव्य
इति । ततः प्रकरणे नैर्ऋताभावाद्यत्रासौ विहितस्तत्र विदग्धता नीयेत । तत्र
प्रकरणं बाध्यते । न चाबाधसम्भवे तद्युक्तम् अतोऽर्थवादत्वादनपकर्ष इति ॥ २४ ॥