मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 208, कुल 804 में से
संदर्भ में पढ़ें१५६ मीमांसादर्शनम् [ सू०
न्या० सु०—सूत्रतात्पर्यमाह—विधिपक्षे चेति । स्वयं यथाश्रुतवचनव्यक्तिपक्षे सूत्रं
योजयति—यदीति । अपकर्षं स्यादित्यर्थकथनमात्रम् । व्युत्पत्तिस्तु यथाभाष्यं कर्म्मण्येव ।
यद्धेयमन्यां देवतामुत्पत्तिशिष्टामपकर्षंतीति कर्तृव्युत्पन्नोऽपकर्षशब्द इत्याह—इयं
वेति । ननु विदाहादेर्निमित्तकत्वेन निर्ऋत्यादेर्देवतान्तरस्य नित्याग्न्यादिदेवताबाधकत्वं
युक्तमेवेत्याशङ्कानिराकरणार्थत्वेन प्रकरणे च सम्भवादिति सूत्रावयवं व्याचष्टे—तत्रेति ।
अभ्युदितेष्टिवदिति । यदाऽमावास्याभ्रान्त्या चतुर्दश्यामन्वाधानं क्रियते, तदामावा-
स्यायामुपसि तन्त्रप्रक्रमविधानात्प्रक्रान्ते तन्त्रे चन्द्रोदये सति 'यस्य हविर्निरुप्तं पुरस्ता-
च्चन्द्रमा अभ्युदेति' स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः, तानग्नये दात्रे पुरोडाशमष्टाक-
पालन्निर्वपेत्, ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दध्नंश्चरुं, येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय
श्रुते चरुमिति । तण्डुलग्रहणोपलक्षितानां सर्वेषामोषधि-दधिपयसां प्राकृतानां हविषां
प्राकृताभ्यो देवताभ्यो विभजेदित्यनेनापनये विहिते, तस्मिन्नेव प्रक्रान्तेऽसमाप्ते कर्मणि
मध्यमादिवाक्यैर्दात्रादिदेवतान्तरविधिरिति पक्षे वक्ष्यते । साभ्युदयेष्टिः । अभ्युदितश्चन्द्रमा
यस्यामिष्टौ साभ्युदितेष्टिरिति व्युत्पाद्याऽमावास्येष्टिरेवोच्यते । यद्यपि विभजेदित्यपन-
यनविधिना तत्र प्रकृतिगताग्न्यादिदेवताबाधो न देवतान्तरविधिना, तथापि नित्यदेवता-
दिबाधेन नैमित्तिकदेवतान्तरविधिसाम्यात् दृष्टान्तता ।
भाष्यकृता तु यत्र नैर्ऋतः, तत्र विदग्धता नीयेतेति वदता यत्तदोर्व्यत्ययः कृतस्त-
त्स्वाभिप्रायं व्याचष्टे—अथेति । विध्यानर्थक्यं हीति सूत्रावयवव्याख्यानार्थं दर्शपूर्णमास-
कर्मेतिभाष्यं स्पष्टत्वान्न व्याख्यातम् । सूत्रं चैवं पूर्वसूत्राद्विधिः क्वचिदितिपदद्वयमनु-
कृष्य यथाभाष्यं योज्यम् । विधिः सन् क्वचिद्दिग्धादावप्रकर्षः कल्प्येत । न चैतद्युक्तम् ।
कस्मान्न युक्तमित्यपेक्षिते, प्रकरणे च सम्भवादिति हेतुगर्भं विशेषणम् । विध्यानर्थक्यं हि
तं कर्मशेषं प्रतीत्यपकर्षकारणमुक्तम् । यथावार्त्तिकं तु कर्तृव्युत्पत्तिपक्षे क्वचिन्नैर्ऋता-
दावपकर्षः कल्प्येत विध्यानर्थक्यं हि तमाग्नेयादिपुरोडाशं प्रतीत्येतावान्विशेषः । कर्म्म-
व्युत्पत्तौ त्वग्न्यादिरुत्पत्तिशिष्टेऽपकृष्टः कल्प्येत निर्ऋत्यादिविध्यानर्थक्यं हि तमनपकृष्टः
स्वदेवतार्कं पुरोडाशं प्रतीति ॥ २४ ॥
भा० प्र०—इस सूत्र के द्वारा अर्थवाद विधि नहीं हो सकता है—इस विषय में
अन्य कारणों का भी निर्देश किया गया है । दर्शपूर्णमास प्रकरण में “यो विदग्धः स
नैर्ऋतो योऽशृतः स रौद्रो यः शृतः स दैवतः । तस्माद् विदहता श्रपयितव्यं सदैवतत्वाय”
(तै० सं० २।६।३) जो विशेष रूप से दग्ध (पक्व) वह निर्ऋतिका=राक्षस का योग्य है,
जो अशृत = अपक्व वह रौद्र = रुद्र देवता का, जो शृत अर्थात् पक्व = अच्छी तरह
पकाया गया है वह दैवत = प्रकरण से प्राप्त देवता का है । अतएव विशेष रूप से दग्ध न
कर पाक करना उचित है इस प्रकार का एक वाक्य है । इस वाक्य को अर्थवाद मानने
पर ही इस का दर्शपूर्णमास प्रकरण में पठित होना सार्थक होगा । क्योंकि इसके द्वारा