मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 74, कुल 100 में से
संदर्भ में पढ़ें६२ मत्तविलास-प्रहसन
पाशुपतः—दिष्ट्या भवान् वर्धते ।
कपाली—नन्वभ्युदयो भवतामेव ।
पाशुपतः—(आत्मगतम्) सत्यमेतत् — नास्त्यदोषवतां
भयमिवि१०८। यदयमद्य१०९ भिक्षुर्व्याघ्रमुखात्११० परिभ्रष्टः ।
(प्रकाशम्) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय
भगवतः पूर्व१११स्थली११२निवासिनो धूमवेलां११३ प्रतिपाल-
यामि११४। अयं चाद्यप्रभृति—
विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः ।
परस्परप्रीतिकरः किरातार्जुनयोरिव ॥२२॥
(निष्क्रान्तः पाशुपतः)
कपाली — भो नागसेन ! यन्मयापराधः कृतः, तत् प्रसन्नहृदयं
त्वामिच्छामि ।
शाक्यभिक्षुः—किं एद पि अब्भत्थणीअं । किं दे पिअं करेमि ।
[किमेतदप्यभ्यर्थनीयम् । किं ते प्रियं करोमि ।]
कपाली—यदि मे भगवान् प्रसन्नः किमतः परमहमिच्छामि ।
शाक्यभिक्षुः—गच्छामि दाव अहं । [गच्छामि तावदहम् ।]
कपाली—गच्छतु भवान् पुनर्दर्शनाय ।
शाक्यभिक्षुः—तह होदु । [तथा भवतु ।] (निष्क्रान्तः)
कपाली—प्रिये देवसोमे ! गच्छावास्तावत् ।
(भरतवाक्यम्)
शश्वद् भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा
वेदान् विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु ।
उद्युक्तः स्वेषु ११५धर्मेष्वयमपि विगतव्यापदाचन्द्रतारं
राजन्वानस्तुशक्तिप्रशमितरिपुणा शत्रुमह्लेन लोकः ॥२३॥
(निष्क्रान्तौ)
(मत्तविलासप्रहसनं समाप्तम्)
१०८. —ति अय— । १०९. —द्य व्याघ्र ।
११०. —त् कथमपि प— । १११. —वां । ११२. ल ।
११३. —लां सम्भावयामि । अयं — । धूम्रवेलां । ११४. —मि अद्य— ।
११५. कर्मेष्वय— ।