सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 72, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 72

६० मत्तविलास-प्रहसन
कपाली—एवंविधं सुवर्णभाजनं केन कृतम् ।
उन्मत्तक—एदिणा शुवण्णवराणपडावुदेण शुवण्णकारावुत्त-
एण किदं त्ति भअवं ! शुवण्णभाअण त्ति भणामि । [एतेन सुवर्णवर्ण-
पटावृतेन सुवर्णकारा१०५वुत्तेन कृतमिति भगवन् ! सुवर्णभाजन-
मिति भणामि ।]
शाक्यभिक्षुः—किं भणसि ।
उन्मत्तकः—शुवण्णभाअणं त्ति । [सुवर्णभाजनमिति ।]
शाक्यभिक्षुः—किमअं उम्मत्तओ । [किमयमुन्मत्तकः ।]
उन्मत्तकः—उम्मत्तओ त्ति बहुशो एदं शद्दं शुणोमि । एदं
गण्हिअ दलिशेहि उम्मत्तअं । [१०६उन्मत्तक इति बहुश एतं शब्दं
शृणोमि । एतद् गृहीत्वा दर्शयोन्मत्तकम् ।] (कपालिने कपालं
प्रयच्छति)
कपाली—(कपालं गृहीत्वा) अयमिदानीं कुड्येनान्तर्हितः ।
शीघ्रमनुगम्यताम् ।
उन्मत्तकः—लद्धप्पशादे ह्नि । [लब्धप्रसादोऽस्मि ।]
(निष्क्रान्तो जवेनोन्मत्तकः)
शाक्यभिक्षुः—अहो अच्छरिअं । परवक्खस्स लाभेण अहं
परितुट्ठो ह्नि । [अहो आश्चर्यम् । परपक्षस्य लाभेनाहं परितुष्टोऽस्मि ।]
कपाली—(कपालं परिष्वज्य)
चिरं मया चरितमखण्डितं तपो
महेश्वरे भगवति भक्तिरस्ति१०७ मे ।
तिरोहितः स तु सहसा सुखेन न-
स्त्वमद्य यत् कुशलि कपाल ! दृश्यसे ॥२१॥
देवसोमा—भअवं ! चन्दसमागदं विअ पओसं भअवन्तं
पेक्खन्तीए अज्ज आणन्ददो विअ मे दिट्ठी । [भगवन् ! चन्द्रसमा-
गतमिव प्रदोषं भगवन्तं पश्यन्त्या अद्यानन्दतीव मे दृष्टिः ।]
१०५. —कारेण कृत— ।
१०६ युष्माकं उन्मत्तका । युष्माकं पुत्रा उन्मत्तकाः । एतद् दत्वा दर्शयामि
उन्मत्तकत्वम् । १०७. अस्तु ।