मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 70, कुल 100 में से
संदर्भ में पढ़ें५८ मत्तविलास-प्रहसन
उन्मत्तकः—जावणं उपशप्पमि । महाशाहणो चराधाल
कुक्कुलश्श शाआशादो अहिगदं एदं कवालं पडिगह्हदु भअवं ।
[^६८यावदेनमुपसर्पामि । (उपसृत्य) महासाधोश्चण्डालकुक्कुरस्य
सकाशादधिगतमेतत्^६६कपालं प्रतिगृह्णातु भगवान्^१००।]
पाशुपतः—(सहृष्टिक्षेपम्) पात्रे प्रतिपाद्यताम् ।
उन्मत्तकः—महाबम्हण ! कलिअदु पशादो । [महाब्राह्मण !
क्रियतां प्रसादः ।]
शाक्यभिक्षुः—एषो महापासुवदो एदस्स जोग्गो । [एष
महापाशुपत एतस्य योग्यः ।]
उन्मत्तकः—(कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणी-
कृत्य पादयोः पतित्वा) महादेव ! कलिअदु पशादो । एशो दे
अञ्जली । [महादेव ! क्रियतां प्रसादः । एष ते ऽञ्जलिः ।]
कपाली—^१०१अस्मदीयं^१०२ कपालम् ।
देवसोमा—एवं एद [^१०३एवमेतत् ।]
कपाली—भगवत्प्रसादात् पुनरपि कपाली संवृत्तः । (ग्रहीतु-
मिच्छति ।)
उन्मत्तकः—दाशीएवुत्त ! विशं खादेहि । [दास्याःपुत्र ! विषं
खाद ।] (कपालमाच्छिद्य गच्छति)
कपाली—(अनुसृत्य) एष^१०४ यमपुरुषो मे जीवितं हरति ।
अभ्यवपद्येतां भवन्तौ ।
उभौ—होदु अम्हे दे सहाआ होम । [भवतु ! आवां ते
सहायौ भवावः ।]
(सर्वे रुन्धन्ति)
कपाली—भोः ! तिष्ठ तिष्ठ ।
उन्मत्तकः—किश्श मं लुन्धन्ति । [कस्मान्मां रुन्धन्ति ।]
कपाली—अस्मदीयं कपालं दत्वा गम्यताम् ।
उन्मत्तकः—मूढ ! कि ण पेक्खशि, शुवण्णभाअणं खु एदं ।
[मूढ ! किं न पश्यसि, सुवर्णभाजनं खल्वेतत् ।]
६८. (पाशुपतमवलोक्य) याव— । ६६. —शाद् मया अधि— ।
१००. भगवान् ! भगवान् ! मस्तकेन वन्दामि । १०१. प्रिये अस्म —।
१०२. —दीयमिदं क— । १०३. भगवन् एव— ।
१०४. हन्त यम— ।; कष्टं एषः।