सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 68, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 68

५६ मत्तविलास-प्रहसन
करोषि । ग्रामशूकर८४मारुह्य गगनमुत्पतितेन सागरेण८५ प्रभ-८६
ञ्ज्यरावणं८७ बलाद्गृहीतः८८शक्रसुतस्तिमिङ्गिलः८६ । अयि
एरण्डवृक्ष ! किं भणसि अलीकमलीकमिति । नन्वेष मुसलसम-
विशाललम्बहस्तो दर्दुरी मे साक्षी६० । अथवा त्रैलोक्यविदित-
पराक्रमस्य साक्षिणा किं कार्यम्६१ । एवं६२ करिष्यामि । कुक्कुर-
खादितशेषं मांसखण्डं खादिष्यामि । (खादन्भ्रान्तः) हा हा
मारितोऽस्मि वाष्पेण६३ मारितोऽस्मि (रुदित्वा विलोक्य) क एष मां
ताडयसि । (विलोक्य) दुष्टदारकाः ! यस्य वा कस्य वा भागिनेयः
खल्वहं भीमसेनस्य घटोत्कच इव । अपि च शृणुथ
गृहीतशूला बहुवेशधारिणाः शतं पिशाचा उदरे वहन्ति६४मे ।
शतं च व्याघ्राणां निसर्गभीषणं मुखेन मुञ्चाम्यहं महोरगान् ॥१६॥
कथं मां बाधन्ते । प्रसीदन्तु दारकभर्तारः । अस्यमांसखण्डस्य कार-
णाद् मा मां६५ बाधध्वम् । (अग्रतो विलोक्य) एष खल्वस्माकमा-
चार्यः शूरनन्दी । यावदेनमुपसर्पामि ।] (इति धावति)
पाशुपतः — अये ! अयमुन्मत्तः इत एवाभिवर्तते । य एषः,
निर्विष्टोज्झितचित्रचीवरधरो रूक्षैर्नितान्ताकुलैः
केशैरुद्धतभस्मपां६६सुनिचयैर्निर्मात्यमालाकुलैः६७ ।
उच्छिष्टाशनलोलुपैर्बलिभुजामन्वास्यमानो गणै-
र्भूयान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥२०॥
८४. र गल मा — । ८५. श्वगणेन । ८६. प्रतिभज्य ।
८७. ञ्ज्य ऐरावतं गृ — । ८८. तः ससुतः ।
८६. ग्रामसूकरः कुक्कुरः, तस्य गलं कण्ठं, गगनमुत्पतितेन मया श्वगणेन
सह ऐरावतं प्रतिभज्य गृहीतः ससुतस्तिमिङ्गिल इति उन्मत्तप्रलापः ।
६०. हनुमत एषा मुसलसमविशाललम्बहस्ते दर्दुरे मे शक्तिः ।
६१. अथवा किं मम त्रैलोक्यविदितपराक्रमस्य शक्त्या कार्यम् ।
६२. — वं तावत् करिष्ये । ६३. मालितोऽस्मि वाषेण ।
६४. — स — । ६५ मां ताउयथ । ६६. पाण्डुनि— ।
६७. — लावृतः, — लावृतैः ।