मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 66, कुल 100 में से
संदर्भ में पढ़ें५४ मत्तविलास-प्रहसन
कपाली—कृतमनेन। कुतश्चिदपि न्याय्यवृत्तेर्भयं नास्ति।
शाक्यभिक्षुः—भो भअवं ! तुमं दाव अग्गदो होहि। [भो८०
भगवन् ! त्वं तावदग्रतो भव ]
पाशुपतः—बाढम् ।
(सर्वे परिक्रामन्ति)
(ततः प्रविशत्युन्मत्तकः)
उन्मत्तकः—एशे एशे दुट्ठकुक्कुले । शुल्लमंशगब्भं कवालं
गण्हिअं धावशि। दाशीएवुत्त ! कहि गमिश्शिशि । एशे दाणि कवालं
णिक्खिविअ मं खादितुकामो अहिमुहं आहावइ । इमिण पत्थलेण
दन्ताणि शे भंजिश्शं । कहं कवालं उज्झिअ पलाअशि । उम्मत्ते
दुट्ठकुक्कुले ईदिशेण णाम शूलत्तणेण मए शह विलोशं कलेशि ।
गामशूगलं आलुहि अ गगणमुप्पदिदेण शागलेण पडिभञ्जिअ लावणं
बला गहीदे शाक्कशुदे तिमिङ्कले । अइ एलण्डलुकख ! किं भणाशि—
अलिअं अलिअं त्ति । णां एशे मुशलशमविशाललम्बहत्थे दद्दिले मे
शक्खी । अहव तेल्लोककविदिअपलक्कमश्श शक्खिणा कि कय्यं ।
एवं कलिश्शं । कुक्किलखादिअशेशं मंशखण्डं खादिशं । हा हा
मालिदोम्हि, बप्फेण मालिदोम्हि । के एशे मं तालेशि । दुट्ठदालआ
जश्शवा कश्श वा भाअणोओ खु अहं, भीमशेणश्श घटुक्कओ विअ ।
अविअशुणाथ,
गहीदशूला बहुवेशधालिणो शदं पिशाआ उदले वहन्ति मे ।
शदं च वग्घाण णिशग्गभीशणं मुहेण मुञ्चामि अहं महोलये ॥
कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दालअभट्टा । इमश्श मंशखण्डश्श
कालणादो मामं वाहेह । एशे खु अम्हाणं आआलिए शूलनन्दी जावं
णं अवशप्पामि । [एष एष दुष्टकुक्कुरः । शूल्यमांसगर्भं कपालं
गृहीत्वा धावसि८१ । दास्याःपुत्र ! कुत्र गमिष्यसि । एष इदानीं कपालं
निक्षिप्य मां खादितुकामोऽभिमुखमाधावति । (दिशो विलोक्य)
अनेन प्रस्तरेण दन्तानस्य भङ्क्ष्यामि । कथं कपालमुज्झित्वा पलायसे ।
उन्मत्तो दुष्टकुक्कुर ईदृशेन नाम शूरत्वेन८२ मया सहापि८३ रोषं
८०. (पाशुपतमवलोक्य) भो । ८१. धावति । ८२. न सह । ८३. ह विरोधं क-।