सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 64, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 64

५२ मत्तविलास-प्रहसन
शाक्यभिक्षुः—भो०७४वण्णो दाव मए किदो । इमस्स
लट्ठाणपरिमाणं केण णिम्मिदं । [भोः ! वर्णस्तावन्मया कृतः ।
अस्य संस्थानपरिमाणं०७५ केन निर्मितम् । ]
कपाली—ननु मायासन्तानसम्भवाः खलु भवन्तः ।
शाक्यभिक्षुः—केत्तिअं वेलं भवन्तं अक्कोसामि । गण्हदु
भअवं । [कियतीं वेलां भवन्तमाक्रोशामि । गृह्णातु भगवान् ।]
कपाली—नूनमेवं बुद्धेनापि दानपारमिता पूरिता ।
शाक्यभिक्षुः—एवं गदे किं दाणि मे सरण । [ एवं गते किमि-
दानीं मे शरणम् ।]
कपाली—ननु बुद्धधर्मसङ्घाः ।
पाशुपतः—नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधि-
करणमेव यास्यामः ।
देवसोमा—भअवं ! जइ एवं, णमो कवालस्स । [भगवन् !
यद्येवं, नमः कपलाय ।]
पाशुपतः—कोऽभिप्रायः ।
देवसोमा—एषो उण अणेअविहारभोअसमधिगवित्तसञ्चओ,
जहाकामं अधिकरणकारुणिआणं मुहाणि पूरेदुं पारेदि । अह्माअं
पुण अहिचम्म भूदिमत्तविभवस्सदरिद्दकवालिअस्स परिआरिआणं
को एत्त विभवो अधिकरणं पवेसिदुं । [एष पुनरनेकविहारसमधि-
गतवित्तसञ्चयो यथाकामम०७६धिकरणकारिणिकानां०७७ मुखानि
पूरयितुं पारयति । अस्माकं पुनरहिचर्मभूतिमात्रविभवस्य०७८
दरिद्रकापालिकस्य परिचारिकाणां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम्]
पाशुपतः—नैतदेवम्०७६—
अजिह्मः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः ।
तैर्धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥
७४. भोदु वण्णं । ७५. णं तावत् कथम् । ७६. सं कारु ।
७७. —कारुणिका । ७८. —वदरिद्र । ७६. मा मैवम्—।