सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 60, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 60

४८ मत्तविलास-प्रहसन
पाशुपतः--उभयमप्युपपन्नम् । कोऽत्र⁶²निर्णयोपायः ।
शाक्यभिक्षुः-बुद्धवअणं पमाणीकरअन्तो भिक्खूसुराभा-
अणं गण्हादितिको एत्थ हेदू । ⁶³[बुद्धवचनं प्रमाणीकुर्वन् भिक्षुसुरा-
भाजनं गृह्णातीति कोऽत्र हेतुः ।]
पाशुपतः-नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धिरस्ति ।
कपाली-प्रत्यक्षे हेतुवचनं निरर्थकम् ।
पाशुपतः-कथं प्रत्यक्षमेव ।
देवसोमा-भअवं एदस्स हत्थे चीवरान्तप्पच्छादिदं कवालं ।
[भगवन् ! एतस्य हस्ते चीवरान्तःप्रच्छादितं कपालम् ।]
पाशुपतः-श्रुतं भवता ।
शाक्यभिक्षुः-भो भअवं ! एदं कवालं ण परकेरअं । [भो
भगवन् एतत् कपालं न परकीयम् ।]
कपाली-तेन हि दर्शय तावत् ।
शाक्यभिक्षुः-तह । [तथा ।] (दर्शयति)
कपाली-पश्यन्तु पश्यन्तु माहेश्वराः ! ⁶⁴कापालिकेन कृत-
मन्वाय्यमस्य भदन्तस्य साधुवृत्ततां च ।
शाक्यभिक्षुः- अदिण्णादाणा वेरमणं सिक्खापदं ।
[अदत्तादानाद्विरमणं⁶५ शिक्षापदम् ।]⁶⁶ (इति पुनस्तदेव पठति)
(उभौ नृत्यतः )
शाक्यभिक्षुः-हद्धि । ⁶७लज्जिदव्वे काले णच्चदि । [हा धिक्
लज्जितव्ये काले नृत्यति ।]
कपाली-आः को नृत्यति । (सर्वतो विलोक्य)⁶८ आ मम
नष्टभिक्षाभाजन⁶९दर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य
नृत्तबुद्धि प्रीतिलताया विलसितेषु ।
६२. को नि । ६३. भो बुद्ध— । ६४. कापालिने कृ —। ६५. णं मुनि शि ।
६६. दम् । (इत्यादि पठित्वा उभौ नृत्यतः) ६७. उदिदव्वे का ।
६८. विलोक्य आत्मगतम् । ६९. भाजनजनितकुतूहल··· ।