मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 58, कुल 100 में से
संदर्भ में पढ़ें४६ मत्तविलास-प्रहसन
(सर्वे कलहं रूपयन्ति )
शाक्यभिक्षु:—दुक्खं दुक्खं । [दुःखं दुःखम् । ]
कपाली—पश्यन्तु पश्यन्तु, माहेश्वराः । एष दुष्टभिक्षुनाम-
धारको मम भिक्षापालं मुषित्वा स्वयमेवाक्रन्दति । भवतु,
अहमप्याक्रोशयिष्ये । अब्रह्मण्यम् ! अब्रह्मण्यम् !
(ततः प्रविशति पाशुपतः)
पाशुपतः—सत्यसोम ! किमर्थमाक्रन्दसि ।
कपाली—भो बभ्रुकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो
मम भिक्षापालं चोरयित्वा दातुं नेच्छति ।
पाशुपतः—(आत्मगतम्) ५६ यदस्माभिरनुष्ठेयं, गन्धर्वैः-
तदनुष्ठितम् । एष दुरात्मा,
तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शिताया ।
आकर्षति काकण्या बहुशो गां ५७ ग्रासमुष्ट्येव ।।१४।।
तदिदानीं प्रतिहस्तिप्रोत्साहनेन ५८ शत्रुपक्षं ध्वंसयामि । (प्रकाशम्)
भो नागसेन ! अप्येवमेतद्, यथायमाह ।
शाक्यभिक्षुः—भअवं ! तुवं पि एवं भणासि । अदिण्णा-
दाणा वेरमणं सिक्खापदं । अब्बम्हचर्या ५९ वेरमणं सिक्खापदं । ६०
अकालभोअणा वेरमणं सिक्खापदं । अह्माअं बुद्धधम्मं सरणं
गच्छामि । [भगवन् ! त्वमप्येवं ६१ भणसि । अदत्तादानाद्विरमणं
शिक्षापदम् । मृषावादाद्विरमणं शिक्षापदम् । अब्रह्मचर्याद्विरमणं
शिक्षापदम् । प्राणातिपाताद्विरमणं शिक्षापदम् । अकालभोजना-
द्विरमणं शिक्षापदम् । अस्माकं बुद्धधर्मं शरणं गच्छामि ।]
पाशुपतः--सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनम् ।
कपाली--नन्वस्माकमनृतं न वक्तव्यमिति समयः ।
५६ अये ! यद् । ५७. गाः । ५८. न अस्मत् श— । ५९. —म्हञ्च्च ।
६०. दं ओअणकालत्थेराने— । ६१. पि न जानासि । अद— ।