सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 56, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 56

४४ मत्तविलास-प्रहसन
कपाली—कथं कपालमित्याह । अथवा युक्तमेतत् ।
दृष्टानि वस्तूनि महीसमुद्रमहीधरादीनि महान्ति मोहात् ।
अपह्नुवानस्य सुतः कथं त्वमल्पं न निह्नोतुमलं कपालम् ॥१३॥
देवसोमा—भववं ! केवलं लालीयमाणो ण दइस्सिदि । ता
एदस्स हत्थादो आच्छिन्दिअ गच्छामो । [भगवन् ! केवलं लाल्यमानो
न दास्यति । तदेतस्य हस्तादाच्छिद्य गच्छावः ।]
कपाली—प्रिये ! तथा । (आच्छेत्तुं व्याप्रीयते५०)
शाक्यभिक्षुः—धंस दुट्ठकवालिअ ! [ध्वंसस्व५१ दुष्ट-
कापालिक !]
(हस्तेन नुदन्५२ पादेन ताडयति)
कपाली—कथं पतितोऽस्मि ।
देवसोमा—मुदो सि दासीएवुत्त ! (केशापकर्षणं५३
रूपयित्वा निरालम्बना पतिता) [मृतोऽसि दास्याः पुत्रः !]
शाक्यभिक्षुः—(आत्मगतम्) अघं बुद्धस्स विण्णाणं जेण मुण्डणं
दिट्ठं । (प्रकाशम्) उट्ठेहि, उट्ठेहि उसिए ! उट्ठेहि । [अहं
(अर्घं वा) बुद्धस्य विज्ञानं, येन मुण्डनं दृष्टम् । उत्तिष्ठोत्तिष्ठ
उपासिके उत्तिष्ठ ।] (इति देवसोमा५४मुत्थापयति ।)
कपाली—पश्यन्तु पश्यन्तु माहेश्वराः अनेन दुष्टभिक्षुनाम-
धारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् ।
शाक्यभिक्षुः—आ वुस ! मा मा एवं । धम्मो खु अम्हाणं
विसमपदिदाणुकम्पा । [आ उपासक ! (आयुष्मन् वा) मा मैवम् ।
धर्मः खल्वस्माकं विषमपति५५तानुकम्पा ।]
कपाली—किमयमपि सर्वज्ञधर्मः, नन्वहं पूर्वं पतितोऽस्मि ।
भवतु किमनेन । इदानीं तव शिरः कपालं मम भिक्षाकपालं
भविष्यति ।
५०. येते । ५१. स गच्छ दु । ५२. न पादेन पातयति ।
५३. केशाकर्षणं । ५४. मां हस्तेन गृह्णाति । ५५. तानां अ—।