मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 52, कुल 100 में से
संदर्भ में पढ़ें४० मत्तविलास-प्रहसन
कपाली—अतएव द्रष्टुमिच्छामि ।
शाक्यभिक्षुः—आ, उस ! मा मा एवं । पच्छण्णं खु एदं णेदव्वं ।
[आः, उपासक ! मा मैवम् । प्रच्छन्नं खल्वेतन्नेतव्यम् ।]
कपाली—नूनमेवमादिप्रच्छादननिमित्तं बहुचीवरधारणं
बुद्धेनोपदिष्टम् ।
शाक्यभिक्षुः—सच्चं एदं । [सत्यमेतत् ।]
कपाली—इदं तत् संवृत⁴³सत्यम् । परमार्थसत्यं श्रोतुमि-
च्छामि ।
शाक्यभिक्षुः—भोदु एत्तओ परिहासो । अविक्कमदि भिक्खा-
वेला । साहेमि अहं । [भवत्वेतावान् परिहासः । अतिक्रामति
भिक्षावेला । साधयाम्यहम् ।] (प्रतिष्ठते)
कपाली—आः, धूर्त ! क्व गमिष्यसि । दीयतां मे कपालम् ।
(चीवरान्तमालम्बते)
शाक्यभिक्षुः—णमो बुद्धअ । [नमो बुद्धाय ।]
कपाली—नमः खरपटायेति वक्तव्यं येन चोरशास्त्रं प्रणीतम् ।
अथवा खरपटादप्यस्मिन्नधिकारे बुद्ध एवाधिकः । कुतः—
वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि ।
विप्राणां मिषतामेव कृतवान् कोशसञ्चयम् ॥१२॥
शाक्यभिक्षुः—सन्तं पापं सन्तं पापं । [शान्तं⁴⁴ पापं शान्तं
पापम् ।]
कपाली—एवं सुवृत्तस्य तपस्विनः कथमिव पापं न शाम्यति ।
देवसोमा—भववं ! परिस्सन्तो विअ लक्खीअसि । ण एदं
सुहोवाअसुलहं कवालं । ता एदिणा गोसिङ्गेण सुरं पिबिअ
जादबलो भविअ इमिणा सह विवादं करेहि । [भगवन् ! परिश्रान्त
इव लक्ष्यसे । नैतत् सुखोपायसुलभं कपालम् । तदेतेन गोशृङ्गेण
सुरां पीत्वा जातबलो भूत्वानेन सह विवादं कुरु ।]
कपाली—तथास्तु ।
४३. —तं परमस—। ४४. शान्तं शान्तं पापम् ।