मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 50, कुल 100 में से
संदर्भ में पढ़ें३८ मत्तविलास-प्रहसन
पश्य पश्य ! एष रक्तपटोऽस्मिन् विश्वस्तपुरुषसम्पाते३८ राजमार्गे
सङ्कुचितसर्वाङ्ग उभयपक्षसञ्चारितदृष्टिः शङ्कितपदविक्षेपस्त्व-
रितत्वरितं गच्छति ।]
कपाली—प्रिये ! एवमेतत् । अपि चास्य हस्ते चीवरान्तप्रच्छा-
दितं किमप्यस्तीव ।
देवसोमा—भअवं ! तेण हि ओलम्बिअ आसादिअ जाणीमो ।
[भगवन् ! तेन हि अवलम्ब्यासाद्य जानीवः ।]
कपाली—भवति ! तथा । (उपगम्य) भो भिक्षो ! तिष्ठ ।
शाक्यभिक्षुः—को णु खु मं एवं भणादि (निवृत्यावलोक्य च)
अइ अयं एअंतेवासी दुट्ठकवालिओ । भोदु, इमस्स सुराविब्भमस्स
लक्खं ण होमि । [को नु खलु मामेवं भणति । अयि अयमेकान्तेवासी
दुष्टकापालिकः । भवतु अस्य सुराविभ्रमस्य लक्ष्यं न भवामि ।
(सत्वरं३९गच्छति ।)
कपाली—प्रिये ! हन्त लब्धं कपालं । अस्य हि मद्दर्शनजनि-
तभयात् त्वरैव४० चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतमुपगम्याग्रतो रुणद्धि)
आः धूर्त ! क्वेदानीं गमिष्यसि ।
शाक्यभिक्षुः—कवालिआउस । मा मा एवं । किं एदं
(आत्मगतम्) अहो ललिअरूवा उवासिआ । [कापालिकोपासक ।
मा मैवम् । किमेतत् । अहो ललितरूपा उपासिका । ]
कपाली—भो भिक्षो ! दर्शय४१ तावत् । यावदेतत् ते पाणौ
चीवरान्तः४२प्रच्छादितं द्रष्टुमिच्छामि ।
शाक्यभिक्षुः—किं एत्थ पेक्खिदव्वं । भिक्खाभाअणं खु एदं ।
[किमत्र द्रष्टव्यम् । भिक्षाभाजनं खल्वेतत् ।]
३८. सञ्चारे । ३९. त्वरितो ग- । ४०. त्वरयैव ।
४१. — य भवान् । ४२. —न्तरितं द्र — ।