मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 48, कुल 100 में से
संदर्भ में पढ़ें३६ मत्तविलास-प्रहसन
(उभौ परिक्रामतः )
(ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः )
शाक्यभिक्षुः--अहो³¹ उवासअस्स ³²धणदाससेट्ठिणो सब्बावास-
महादाणमहिमाणो, जहिं मए अभिभदवण्णगन्धरसो मच्छमंसप्प-
आरबहुलो अअं पिण्डवादो समासादिदो। जाव दाणि राअविहारं
एव्व गच्छामि। (परिक्रम्य आत्मगतम्) भोः ! परमकारुणिएण
भववदा तहागएण पासादेसु वासो सुविहिअ³³सय्येसु पज्जङ्केसु
सअणं, पुव्वण्हे भोअणं, अवरण्हे सुरसाणि पाणआणि, पञ्चसुगन्धव्वो³४
वहिअं तम्बोल्लं³५ सण्हवसणपरिधाणं ति एदेहि उवदेसेहि भिक्खु-
सङ्घस्स अगुग्गहं करन्तेण किण्णु हु³⁶ इत्थि आपरिग्गहो सुरावाण-
विहाणं च ण दिट्ठं। अहव कहं सव्वञ्ञो एतं ण पेक्खदि। अवस्सं
एदेहि दुट्ठबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजणाणं मच्छरेण
पिडअपुत्थएसु इत्थिआ सुरावाण विहाणाणि पलामिट्टाणि त्ति
तक्केमि। कहिं णु हु अविणट्ठमूलपाठं समासादएअं। तदो सम्पुण्णं
बुद्धवअणं लोए पआसन्तो सङ्घोवआरं करिस्सं। [अहो उपासकस्य
धनदासश्रेष्ठिनः सर्वावासमहादानमहिमा, यस्मिन् मयाभिमतवर्ण-
गन्धरसो मत्स्यमांसप्रकारबहुलोऽयं पिण्डपातः समासादितः। यावदि-
दानीं राजविहारमेव गच्छामि। (परिक्रम्य आत्मगतम्) भोः
परमकारुणिकेन भगवता तथागतेन प्रासादेषु वासः, सुविहितशय्येषु
पर्यङ्केषु शयनं, पूर्वाह्णे भोजनं अपराह्णे सुरसानि पानकानि,
पञ्चसुगन्धोपहितं³७ताम्बूलं श्लक्ष्णवसनपरिधानमित्येतैरुपदेशै-
र्भिक्षुसङ्घस्यानुग्रहं कुर्वता किन्नु खलु स्त्रीपरिग्रहः सुरापानविधानं
च न दृष्टम् अथवा कथं सर्वज्ञ एतन्न पश्यति। अवश्यमेतैर्दुष्ट-
बुद्धस्थविरैर्निरुत्साहैरस्माकं तरुणजनानां मत्सरेण पिटकपुस्तकेषु
स्त्रीसुरापानविधानानि परामृष्टानीति तर्कयामि। कुत्र नु खल्व-
विनष्टमूलपाठं समासादयेयम्। ततः सम्पूर्ण बुद्धवचनं लोके प्रकाशयन्
सङ्घोपकारं करिष्यामि।] (परिक्रामति)
देवसोमा—भवअं ! पेक्ख पेक्ख । एसो रत्तपडो इमस्सि
विस्सत्थपुरिससम्पादे राअमग्गे सङ्कुइदसव्वङ्गो उभयपक्खसञ्चा-
रिददिट्ठी सङ्किदपदविक्खेवो तुरिअ-तुरिअं गच्छइ। [भगवन् !
३१. (गन्धमघ्राय) अहो । ३२. घ ३३. हिद—।
३४. मुगन्धो— ३५. म्वु ३६. खु। ३७. —न्धोद्बोधितं—