मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 46, कुल 100 में से
संदर्भ में पढ़ें३४ मत्तविलास-प्रहसन
कपाली—एष २५ प्रतिगृह्णामि । प्रिये ! क्व मे कपालम् ?
देवसोमा—अहं वि ण पेक्खामि । [अहमपि न पश्यामि ।]
कपाली—(ध्यात्वा) आ तस्मिन्नेव सुरापणे विस्मृतमिति
तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः ।
देवसोमा—भअवं ! अधम्मो खु एसो आदरोवणीदाए भिक्खाए
अप्पडिग्गहो । किं दाणि करम्ह । [भगवन् ! अधर्मः खल्वेष आदरो-
पनीताया भिक्षाया अप्रतिग्रहः । किमिदानीं कुर्वः ।]
कपाली—आपद्धर्मं २६ प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्यताम् ।
देवसोमा—भअवं ! तह । (प्रतिगृह्णाति) [भगवन् ! तथा]
(२७उभौ परिक्रम्यावलोकयतः)
कपाली—कथमिहापि न दृश्यते । (विषादं रूपयित्वा) भो
भो माहेश्वराः ! माहेश्वराः ! अस्मदीयं भिक्षाभाजनमिह भवद्भिः
किं दृष्टम् २८ । किमाहुर्भवन्तः- न खलु वयं पश्याम इति । हा
हतोऽस्मि । भ्रष्टं मे तपः । केनाहमिदानीं कपाली भविष्यामि ।
भोः कष्टम्—
येन मम पानभोजनशयनेषु नितान्तमुपकृतं शुचिना ।
तस्याद्य मां वियोगः सन्मित्रस्येव पीडयति ।।११।।
(पतितः शिरस्ताडनं रूपयित्वा) भवतु । अस्ति लक्षणमात्रम् । न
मुक्तोऽस्मि कपालिसंज्ञायाः । (उत्तिष्ठति )
देवसोमा—भअवं ! केण खु गहीदं कवालं । [भगवन् ! केन
खलु गृहीतं कपालम् २९ । ]
कपाली—प्रिये ! तर्कयामि शूल्यमांसगर्भत्वाच्छुना वा
शाक्यभिक्षुणा वेति ।
देवसोमा—तेण हि अण्णेसणणिमित्तं सव्वं कञ्चीउरं परिब्भ-
मामो । [तेन ह्यन्वेषणनिमित्तं सर्वं ३० काञ्चीपुरं परिभ्रमावः ।]
कपाली—प्रिये ! तथा ।
—
२५. एष एष २६. प्रिये, आप— २७. उभौ तथा कृत्वा प………… ।
२८. —ष्टम् । (कर्णन्दत्वा) किमा— । २९. —लं भवेत् । ३०. सर्वमेव ।