मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 44, कुल 100 में से
संदर्भ में पढ़ें३२ मत्तविलास-प्रहसन
कपाली—प्रिये ! पश्य पश्य ! एष सुरापणो यज्ञवाटविभूति-
मनुकरोति । अत्र हि ध्वजस्तम्भो यूपः, सुरा सोमः, शौण्डा ऋत्विजः,
चषकाश्चमसाः, शूल्यमांसप्रभृतय उपदंशा हविर्विशेषाः, मत्तवचनानि
यजूंषि, गीतानि सामानि, उदङ्काः स्रुवाः, तर्षोऽग्निः, सुरापणाधि-
पतिर्यजमानः ।
देवसोमा—अम्हाणं पि एत्थ भिक्खा रुद्दभाओ भविस्सदि ।
[आवयोरप्यत्र भिक्षा२१रुद्रभागो भविष्यति ।]
कपाली - अहो दर्शनीयानि प्रहृतमर्दल२२ करणानुगतानि
विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावलम्बितोत्तरीयाणि
विगलित२३वसनप्रतिसमाधानक्षणविषमितलयानि व्याकुलितकण्ठ-
गुणानि मत्तविलासनृत्तानि ।
देवसोमा—अहो रसिओ खु आअय्यो । [अहो रसिकः
खल्वाचार्यः ।]
कपाली—एषा भगवती वारुणी चषकेष्वावर्जिता प्रत्यादेशो
मण्डनानाम्, अनुनयः प्रणयकुपितानां, पराक्रमो यौवनस्य, जीवितं
विभ्रमाणाम् । किं बहुना —
मिथ्या त्रिलोचनविलोचनपावकेन
भस्मीकृतां मदनमूर्तिमुदाहरन्ति ।
स्नेहात्मिका तदभितापवशाद् विलीना
सेयं प्रिये ! मदयति प्रसभं मनांसि ॥१०॥
देवसोमा —भअवं ! जुज्जइ एदं । णहि लोओवआरणिरदो
लोअणाहो लोअं विणासेदि । [भगवन् ! युज्यत एतत् । नहि लोको-
पकारनिरतो लोकनाथो लोकं विनाशयति ।]
(उभौ कपोलपटहं कुरुतः)
कपाली—भवति ! भिक्षां देहि ।
(नेपथ्ये)
भअवं ! एसा भिक्खा । पडिगण्हदु भअवं । [भगवन् ! एषा
भिक्षा । प्रतिगृह्णातु भगवान् ।२४]
२१. भिक्षविभागः २२. मद्दल २३. —लितानि २४. भवान्