संक्षिप्त मार्कण्डेय पुराण

संक्षिप्त मार्कण्डेय पुराण
Markandeya Purana
महर्षि वेदव्यास द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 236, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 236
२३६
- संक्षिप्त मार्कण्डेयपुराण *
जानताऽजानता वापि बलिपूजां तथा कृताम्।
प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् ॥ १२॥
शरत्काले महापूजा क्रियते या च वार्षिकी।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १३ ॥
सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १४॥
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १५ ॥
रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते।
नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १६ ॥
शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १७॥
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १८ ॥
बालग्रहाभिभूतानां बालानां शान्तिकारकम्।
संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १९॥
दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ २० ॥
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्।
पशुपुष्पार्थ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ २१ ॥
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ २२ ॥
प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते।
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥ २३ ॥
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ २४ ॥
तस्मिञ्छुते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ २५ ॥
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ २६ ॥
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ २६ ॥
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ २७ ॥
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ २८ ॥
स्मरन्ममैतच्चरितं नरो मुच्येत सङ्कटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ २९ ॥
दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ ३० ॥
देवी बोलीं- ॥ १ ॥ देवताओ ! जो एकाग्रचित्त
होकर प्रतिदिन इन स्तुतियोंसे मेरा स्तवन करेगा,
उसकी सारी बाधा मैं निश्चय ही दूर कर
दूँगी ॥ २ ॥ जो मधु कैटभका नाश, महिषासुरका
वध तथा शुम्भ-निशुम्भके संहारके प्रसङ्गका पाठ
करेंगे ॥ ३ ॥ तथा अष्टमी, चतुर्दशी और नवमीको
भी जो एकाग्रचित्त हो भक्तिपूर्वक मेरे उत्तम
माहात्म्यका श्रवण करेंगे ॥ ४ ॥ उन्हें कोई पाप नहीं
छू सकेगा। उनपर पापजनित आपत्तियाँ भी नहीं
आयेंगी। उनके घरमें कभी दरिद्रता नहीं होगी
तथा उनको कभी प्रेमी जनोंके विछोहका कष्ट भी
नहीं भोगना पड़ेगा ॥ ५ ॥ इतना ही नहीं, उन्हें
शत्रुसे, लुटेरोंसे, राजासे, शस्त्रसे, अग्निसे तथा
जलकी राशिसे भी कभी भय नहीं होगा ॥ ६ ॥
इसलिये सबको एकाग्रचित्त होकर भक्तिपूर्वक
मेरे इस माहात्म्यको सदा पढ़ना और सुनना
चाहिये। यह परम कल्याणकारक है ॥ ७॥ मेरा
माहात्म्य महामारीजनित समस्त उपद्रवों तथा
आध्यात्मिक आदि तीनों प्रकारके उत्पातोंको शान्त
करनेवाला है ॥८॥ मेरे जिस मन्दिरमें प्रतिदिन
विधिपूर्वक मेरे इस माहात्म्यका पाठ किया जाता
१. पा० - प्रतीक्षिष्यामि । २. पा० - सर्वबाधा।