सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 93, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 93

मन्त्ररामायणम् ५७
खण्डाऽवश्यमित्यर्थः ॥ ते एव हनू सम्भरेते संहरेते विश्वस्य संहारं कुरुतः । असिन्वती
अबध्नन्ती, अन्योन्यमस्पृशन्त्यौ । दप्सती ललमाने । भूरि बहुलम् अत्तः भक्षयतः ।
प्रश्वासवेगेनैव सर्वमस्योदरे प्रविशति न तु दन्तोन्मीलनेनेति भावः ॥ ७२ ॥
गुहाशिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि ।
अत्राण्यस्मै पड्भिः सम्भरन्त्युत्तानहस्ता नमसाऽधि विक्षु ॥ ७३॥
ऋ. १०. ७६, २
वानर रूप होने से इसका शिरोभाग छोटा है और नेत्र गम्भीर हैं ।
मुखफलक में वन, जल, फल आदि का जिह्वा के द्वारा भक्षण करता है ।
सीता देवी के द्वारा आज्ञापित यक्ष इसकी सेवा करते हैं । प्रजाओं
के ऊपर स्थित गन्धर्वादि नमस्कार के निमित्त से अञ्जलि बाँधे
रहते हैं ।
अस्य शिरो गुहा गुहायां निहितं वानररूपत्वाच्छिरोऽत्यल्पमित्यर्थः । तथा-
अक्षी अक्षिणी ऋधक् तले निहिते गभीरे इत्यर्थः । असिन्वन् मुखफलके अबध्नन्
असंयोजयन्नेव वनानि जलानि, वनस्थानि फलादीनि वा जिह्वयैवातिदीर्घीकृत-
याऽत्ति भक्षयति । अस्मै अत्राणि अन्नानि वर्णलोपश्चान्दसः भोजनपात्राणि
अन्नपूर्णानि पड्भिः दूतैः सम्भरन्ति । देवाः सीताज्ञया खलु यक्षा एनं सेवन्त इति
भारते दृष्टम् । विक्षु प्रजासु अधि उपरि स्थिताः गन्धर्वादयः नमसा नमस्कारेण
निमित्तेन उत्तानहस्ताः बद्धाञ्जलयो भरन्तीति सम्बन्धः ॥ ७३ ॥
प्रमातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः प्रसर्पदुर्वीः ।
ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ ७४॥
ऋ. १०. ७६, ३
जैसे पुष्पान्वेषण में तत्पर कुमार के पास ओषधियाँ जाती हैं वैस
ही हनुमान् गुप्त सन्देश लेकर सीता के पास गये । पकी हुई फसल के
समान शोक के कारण पीतवर्ण वाली, रावण को ग्रसने वाली सीता को
उन्होंने पृथ्वी के गुप्त स्थान में खोजा ।
प्रमातुरिति - यथा पुष्पाऽन्वेषणपरः कुमारो वीरुध ओषधीः प्रसर्पात्, एवं
हनुमान्मातुः सीतायाः सकाशात् प्रकृष्टतरं गुह्यं गुह्यसन्देशं इच्छन् उर्वीः
भूप्रदेशान् प्रसर्पत् प्रासर्पत् । ससंसस्यक्षेत्रं पक्वमिव नेत्युपमत्रोपमार्थं तद्वत्पाण्डुर-
मित्यर्थः । यतः शुचन्तं शोचन्तं सीताया आत्मानम् अविदत् शोकेन लिङ्गेन
पक्वक्षेत्रच्छायया च ज्ञातवान् । रिरिह्वांसं लेलिहानं रावणं ग्रसितुमित्यर्थात्