मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 91, कुल 145 में से
संदर्भ में पढ़ेंमन्त्ररामायण ५५
न मर्डिता विद्यते अन्य एभ्यो देवेपु मे अधिक्कामा अयंसत ॥६८॥
ऋ. १०. ६४, २
सत्यसङ्कल्प, मेरी सेवा की इच्छा करने वाले, बुद्धिमान्, वानर रूपी
देवता मेरे कार्य के लिये सभी दिशाओं में जाते हैं और मेरे मनोरथ
को पूर्ण करते हैं ।
क्रतवः साक्षात् सत्यसंकल्पा इत्यर्थः । क्रतूयति क्रियामात्मन इच्छन्ति
अस्मत्सेवां कर्तुमिच्छन्ति । हृत्सु धोतयः हृदयेषु धीमन्तःवेनंति शोभन्ते । वेनाः
कमनीयाः । आसमंतात् दिशः पतयन्ति गच्छन्ति । एभ्यो वानररूपेभ्यो देवेभ्यो-
ऽन्यो न मर्डिता सुखयिता न विद्यते । मे मम कामाः मनोरथाः देवेषु एषु
अयंसत अपूर्यन्त ॥ ६८ ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शयावंतु वाजिनो मितद्रवः ।
सहस्रसा मेधसा ताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥६९॥
ऋ. १०. ६०, ६
शीघ्रगति वाले वानर मेरे आवाहन को सुनें । इनकी विश्व में सर्वत्र
गति है, जैसे यज्ञ में ऋत्विज धन को ग्रहण करता है वैसे ही ये संग्राम
में शत्रुओं के धन को ग्रहण करें ।
इत्यादि चिन्तयित्वा वानरांप्रति वदतितेन इति । ते अर्वन्तः शीघ्रगतयो
वाजिनो वानराः नोऽस्माकं हवम् आह्वानं शयावंतु शृण्वन्तु । कीदृशाः हवनश्रुतः
हवनं शृण्वंति ते, तथा विश्वे सर्वे, मितद्रवः, परिमितगतयः । ये त्मना आत्मना
सहस्रसाः सहस्रैः संमितस्य धनादेः संभक्तारः मेधसा ताविव यज्ञे इव समिथेषु
संग्रामेषु महः महनीयम् धनं शत्रूणां वित्तं जभ्रिरे हृतवन्तः । यज्ञे ऋत्विज इव
स्वभूतमितिभावः ॥ ६९ ॥
प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम् ।
ते हि देवस्य सवितुः सवीमनि ऋतुंसचंत सचितः सचेतसः ॥७०॥
ऋ. १०. ६४, ७
हे देवताओं ! आपके मध्य में शरीरधारी वायुदेवता को सखा के
समान अपने कार्य को सम्पन्न करने के लिये उनकी स्तुति करता हूं ।
क्योंकि वे सविता देवता के लोक में सङ्कल्प को पूरा करते हैं । सहृदय
के द्वारा प्रार्थना करने पर सज्जन पुरुष कार्य को करते हैं ।
भो देवाः वः युष्माकं मध्ये वायुं वायुपुत्रं रथयुजं देहधरं पुरः धोयत इति