मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 87, कुल 145 में से
संदर्भ में पढ़ेंमन्त्ररामायण ५१
उत्साही, अरुणपुत्र, महाशूर, अनिकेत, दूरगामी जटायु ने यह जो
सोचा कि मैं रावण को मारकर सीता को राम को दे दूँगा, तो यह सत्य
है, क्योंकि मरने पर भी उनका सङ्कल्प निष्फल नहीं हुआ क्योंकि
स्पृहणीय सीतारूप धन को राम रावण को मारकर जीतेंगे ।
शवमनेति-सुपर्णो जटायुर्यच्चिकेत यत् ज्ञातवान्, अहं रावणं हत्वा रामाय
सीतां दास्यामीति, तन् सत्यमित् सत्यमेव, न तु मोघं न निष्फलम्, मृतस्यापि
साधोः सङ्कल्पोऽन्यथा न भवतीत्यर्थः । अतः स्पाहं स्पृहणीयं वसु सीताख्यं धनं
रामो रावणं हत्वा जेता जेष्यति उत दाता अपि च रक्षोधनस्य । कीदृशः सुपर्णः
शाक्मना शाकः शक्नोत्यनेनेत्युत्साहेन शक्तिमान् । अरुणो रामे रागवान् अरुणपुत्र-
त्वाद्दारुणः । महां महान् शूरः । सनात् सर्वदा अनीड! अनिकेतः महायोगीत्यर्थः ।
पक्षे यद्विवेकेन दृष्टं तत्सर्थवावसरे प्राप्ते बोधः समर्थयत इति भावः । सुपर्णो
दूरगामी ॥ ६१ ॥
ऐभि॒र्देदे॒ वृष्ण्यं॒ पौंस्या॑नि॒ येभि॒रौक्ष॒द्वृत्र॒हत्या॑य व॒ज्री ।
ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्वृते कर्म॑मुदजा॑यन्त दे॒वाः ॥ ६२॥
ऋ० १०. ५५, ७
किस प्रकार वह सङ्कल्प सत्य हुआ वह कहते हैं : 'वृत्र वधरूप
पाप के फलस्वरूप मानो इन्द्रादि देवताओं ने जो मनुष्य और पशु का
रूप धारण करके राम की सहायता की तो, ये देवता वानर योनि में
सेतुबन्धन आदि कार्य से रावणवध-कार्य को करने में महान कार्य
करने वाले हो गये !'
कथं तत्संकल्पः सत्योऽभूदत आह-ऐभिरिति । एभिः देवैः वृष्ण्या वृष्णो
वर्षणशीलानां पशूनां चिह्नानि लांगूलवत्त्वचतुष्पादचारित्वादीनि पौंस्यानि पुंसां
मानुषाणामिमानि चिह्नानि हस्तादायित्वत्रिकोपवेशित्वादीनि वानरेषु दृष्टानि
आददे आददिरे आत्तानि । एकत्वमार्षम् येभिः येरुपात्तैश्चिह्नर्युतो वज्री इन्द्रः
बालिरूपी वृत्रहत्याय दण्डरूपाय मरणाय औक्षत् रेतःसेकं कृतवान् कापेयीं
चलचित्तां प्राप्य कनिष्ठभ्रातृभार्यां दुहितृकल्पां गत्वा बाली वध्यत्वं प्रापेत्यर्थः ।
ये देवाः ऋते कर्मम् वानरयोनिप्रापकं दुरितं विनापि क्रियमाणस्य करिष्यमाणस्य
सेतुबन्धनराक्षसवधादेः कर्मण. मह्ला माहारम्भेने उदजायंत वानररूपेण महत्कर्म
कर्तुमाविर्भूता इत्यर्थः ॥ तैरेव सहायेर्जटायुसंकल्पंरामः साधितवानिति भावः ॥
पक्षे बोधसहायाः श्रोत्रेन्न्द्रियादयः ध्वन्यार्थमन्तर्मुखाः वेदान्तश्रवणार्थं बहिर्मुखाश्चेति
ज्ञाङ्गचिह्नानि धारयन्ति, तत्रापि महानपि बहिर्मुखत्वेन प्रमाद्यति, अतोऽन्तर्मुखतयैव