सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 85, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 85

मन्त्ररामायण ४९
ऊर्ध्वं भानुं सूर्य्यस्य स्तभायन्दिवो वसुभिररतिर्विभाति ॥५८॥
ऋ. १०. ३, २
जब रावण बलपूर्वक कालरात्रि के तुल्य विवर्ण सीता को ले जाने
लगा तो उन्होंने अपने वास्तविक स्वरूप को तिरोहित करके छाया
सीता को जन्म दिया और उनके वास्तविक रूप को अग्नि ने छिपा
लिया। छाया सीता को लेकर रावण, जब तक देवता उसे रोक पाते,
आकाशमार्ग से उड़ गया ।
कृष्णामिति-स एवं चिन्तयन्नभिनयंत् यदा कृष्णां कालरात्रितुल्याम् एनां
विवर्णां सीतां वर्धसा वारयन् यातीति, दर्पः स्वं रूपम् तेन कवचेनैतदाच्छादकेन
योगबलेन अभ्यभूत तिरोहितां कृतवान् । किम्भूतः-बृहतः ब्रह्मणः सङ्कल्पादेवे-
त्यर्थः । योषामन्यां स्त्रियं छायासीतां जनयन् । पितुः रामस्य जां जायामिव
जायां तदा तां गृहीत्वा अरतिः रावणः ऊर्ध्वम् आकाश मार्गं सूर्य्यस्य दिवः
द्युसम्बन्धिनो देवतागणस्य च वसुभिर्देवताविशेषैः सह तेषां सर्वेषां भानुं करं
हस्तमिति यावत् स्तभायन् स्तम्भयन् विभाति । रावणेन आकाशमार्गेण नीयमानां
सीतां रावणादाच्छेत्तुं कोपि प्रभुर्नाभवदित्यर्थः । पक्षे स्पृहया प्रेरितो मारीचो
दम्भः, रावणः कामः तौ सीतां श्रद्धां दम्भोन्मुखतया परोक्षमपरोक्षं च बोधं
रामलक्ष्मणाख्यं दूरे कुर्वन्तौ कामो जहार । अग्निः यज्ञः स तु तस्याः सात्त्विकं
रूपं गोपितवानित्यर्थः ॥ अत्रो भद्रयेत्यग्रिममन्त्रेऽग्निः सीतां रामाय समर्पितवा-
निति दर्शनादेतावपि रामपरौ ॥ ५८ ॥
स ईं वृषा न फेनमस्यदाजौ स्मदापरैदपदश्चेताः ।
सरत्पदा न दक्षिणा परावृङ्न तानु मे पृशन्यो जगृभ्रे ॥५९॥
ऋ. १०. ६१, ८
जिस प्रकार क्रोधाविष्ट महोक्ष मुख और नासिका से फूत्कार करता
है उसी प्रकार सीता के लिये राम ने राक्षसों से युद्ध किया । दक्षिण
दिशा की ओर सीता प्राप्ति के लिये उनके पदचिह्नों को खोजते हुए,
सीता प्राप्तिसूचक शकुन भी न प्राप्त होने से श्री राम दुःखी हुए ।
स इति । स हृतदारो रामभद्रः ईम् एनां सीतां निमित्तीकृत्य आजौ राक्षसैः
सह संग्रामे अस्यत् आस्यात् बाणानप्राक्षिपत् । तत्र दृष्टान्तः वृषा न फेनमिति ।
यथा महोक्षः क्रोधाविष्टः फेनविप्रुषो मुखनासिकेन फूत्कारं कुर्वन्नस्यति तद्वत् ।
४