सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 66, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 66

१० मन्त्ररामायण
सुदासं रामाख्यं पुच्छं ब्रह्म प्रापितवान्, अतः ब्रह्मनिष्ठैःकुशिकैरिन्द्रोऽप्रियायत-
“आत्मा ह्येषां स भवति” इति श्रुतेः। ब्रह्मिष्ठो ब्रह्मनिष्ठो देवानामात्मभावं
गतस्तेषां प्रियतमो भवतीति भावः। एतेनानन्दमयस्य प्रविलय उक्तः। तमेतं
मुमुक्षुं प्राप्यमात्मानमज्ञात्वा यः कर्म करोति, तत्तस्य नश्यतीति रामं प्रति
विश्वामित्रागमनेन सूचितम्। श्रुतिश्चैतदाह “यो वा एतदक्षरं गार्ग्यवि विदित्वा-
ऽस्मिँल्लोके जुहोति यजति ददाति” माध्यंदिन पाठे- “तपस्तप्यते” इत्यपि,
“बहूनि वर्षसहस्राण्यन्ते यदेवास्य तद्भवति” इति अथाप्यर्णवस्तम्भनम्
विषिवञ्च कुशिकाः सोम्यं मध्विति राजवृत्रं जघ्नुर्नप्रागपागुदगिति च सोमपाना-
भ्यनुज्ञानं सर्वदेशीयवृत्रहननं च वक्ष्यमाणं विश्वामित्राद्वलातिबलायांग्रहणं चेति
सर्वं राम सङ्गतम्॥ एवमन्यदपि लिङ्गविशेषोपेतं मन्त्रजातमुदाह्रियते न
निर्लिङ्गं हठादाकृष्यत इति दिक्॥ २२॥
पूर्वाप॑रं चरतौ माययैतौ शिशू क्रीळ॑न्तौ परियातो अध्वरम्।
विश्वान्यन्यो भुवनाभिचष्ट ऋतूनन्यो विदधज्जायते पुनः॥२३॥
ऋ. १०. ८५, १८
दोनों बालकों, राम और लक्ष्मण ने आगे पीछे चलते हुए यज्ञ की
रक्षा थी। राम ने सूर्य के समान पूरे क्षेत्र को देखा और लक्ष्मण ने
तिथि आदि के क्रम से संसार को धारण किया।
ततो यज्ञरक्षार्थं प्रस्थितौ रामलक्ष्मणौ सूर्यासवित्रीनामदेवता स्तौति—
पूर्वापरमिति। शिशू रामलक्ष्मणौ पूर्वापरमग्रे पश्चाच्च चरतो गच्छतः मायया
शिशुत्वम् एतौ गतौ क्रिडन्तौ अध्वरं परिपातः। तयोरन्य एको रामः सूर्यवद्विश्वानि
भुवनानि क्षेत्राणि आचष्ट साकल्येन पश्यति, चैतन्यज्योतिःस्वरूपत्वात्। अन्यो
लक्ष्मणः ऋतून् तिथ्यादिजननक्रमेण वसन्तादीन् चन्द्र इव ऋतुशब्दोदितं कालं
काल्यमानं जगत् विदधद्रचयन् पुनः पुनर्जायते। पक्षे श्रुतितो युक्तिश्चाध्यारो-
पाववादाभ्यां प्रतिपन्नस्य वस्तुनः सम्पादनार्थं निदिध्यासमिच्छतः तदालम्बनत्वेन
सूत्रान्तर्यामिणावुप न्यस्तौ यद्यपि यज्ञं प्रतिगन्तृत्वं रामकृष्णयोरपि शिश्वोर्दृष्टम्
तथापीत आरभ्य यावदध्यायपरिसमाप्ति विवाहलिंगानि-“गृभ्णामि ते सौभग-
त्वाय हस्तम्” इत्यादीनि-“उदीर्ष्वातः पतिवती ह्येषा सञ्जायां पत्या सृज” इति
भार्याहर्तुः प्रार्थनारूपेण लिंगेन लब्धायाः भार्य्यायाः हरणम् ‘पुनः पत्नीमग्निरदात्’
इति पुनस्तल्लाभ इत्येतत्समुच्चित्तं सर्वं रामे एव संगत मिति अयं प्रघट्टको रामपर
एव॥ २३॥
परादेहिशामूल्यं ब्रह्मभ्यो विभजावसु ।