सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 65, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 65

त्त्वादुपेक्ष्यम् । “सर्वास्ता रोमशाः कृधि” इत्यत्र अपालामिन्द्रपित्पुत्रत्वं कृणोः
सूर्यत्वचमित्यनन्तरमन्त्रेऽपालायाः शिखोधनेन सूर्यसमत्वमकरोः, तथा ममापि
तानि सर्वाणि उर्वरादीनि पूर्वमन्त्रोक्तानि प्ररोहार्थं शोधयित्वा दीप्तिमन्ति कुर्विति
समुदायार्थः प्रतीयते, स एवात्रापि ग्रहीतुं युक्तः रोमशेत्यव्युत्पन्नं प्रातिपदिकम् ॥
अन्यथा मत्वर्थीयशप्रत्ययान्तत्वे पदकाले एव गृह्येत अवान्तरपदसंज्ञायाः सत्त्वा-
दिति दिक् । पक्षे बुद्धिमलिन्ये सति बाह्येन्द्रियवियुक्तमपि मनः स्वप्नेपि
महान्तमनर्थं सृजति, अतस्तस्यां शुद्धायाम् अस्मितामात्रावशेषायां सर्वसङ्कल्पो-
परमात्मनोमयस्य अहं कर्तेति अभिमानमात्रान्नमोमयस्य विप्रविलापनं कृतं
भवति कुशलैव कौशल्या तत्त्वप्रतिपत्तियोभ्येति योर्थः कौशल्यापदेनोक्तः, स एवात्र
रोमशापदेन गृहीत इति कौशल्यायाः नामान्तरं रोमशेति । तथा ऋष्यशृङ्गस्य
नामान्तरं कक्षोवानिति । एवमादि तत्तन्नियोगानुष्ठानवशादुन्नेयम् ॥ २१ ॥
म॒हाँऋषि॑र्देव॒जो दे॒वजू॑तो॒ अस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षा॑: ।
वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशिके॒भिरिन्द्र॑: ॥२२॥
ऋ. ३. ५३, ६
इस प्रकार रामभद्र आदि चारों का वर्णन होने पर यज्ञ के विघ्न
को दूर करने के लिये राम-लक्ष्मण की याचना करते हुए विश्वामित्र
दशरथ के पास आये, इस कथा को कहते हैं : पूज्य, ऋषि, इन्द्रियवशी
विश्वामित्र समुद्र को स्तम्भित करने वाले सुदास राजा के गोत्र में
उत्पन्न राम को यज्ञ की रक्षा के लिये ले गये जिससे विश्वामित्र द्वारा दी
गयी हवि को निर्विघ्न प्राप्त करके इन्द्र प्रसन्न हुए।
तदेवं रामभद्रादीनां चतुर्णां जन्मवर्णनं तेषु काकपक्षकधरेषु यज्ञविघ्ना-
पनोदनार्थं रामलक्ष्मणो याचितुं दशरथं प्रति विश्वामित्र आजगामेति कथासूचकं
मन्त्रमाह-महानिति । महान् पूज्यः, ऋषिनारायणः, देवजः राज्ञः
सकाशादाविर्भूतः देवजूतः देवाः इन्द्रादयः, इन्द्रियाणि वा जूताः प्रेरितानि येन
स देवजूतः । सिन्धुं स्यन्दमानमर्णवं समुद्रम् अस्तभ्नात् स्तम्भितवान् ।
नॄन् चष्टे अनुकम्प्यत्वेन पश्यतीति नृचक्षाः इन्द्रियद्रष्टा वा “चक्षुषश्चक्षु”
इति श्रुतेः । तमृषि सुदासं वसिष्ठः “सुदासं पैजवनमभिषिषेच” इति ब्राह्मणा-
द्धसिष्टयाज्यस्य मुख्यस्य सुदासोऽत्र ग्रहणाद्योगात् सुदासस्य राज्ञो गोत्रे भवं रामं
विश्वामित्रः स्वज्ञयं धातुं यत् अवहत् यज्ञवाटं प्रति प्रापितवान् तेन कर्मणा इन्द्रः
कुशिकैः कुशिकसन्तत्या अप्रियायत अविघ्नेन यज्ञे हवींषि भोक्ष्यामीति हर्षं प्राप्त-
वान् । पक्षे विश्वामित्रो जीवः आनन्दमयं शोधितत्वं पदार्थमात्मानं गोणकर्म-