सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 63, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 63

क्षियत! ऐश्वर्ययुक्तान्, उपरि सेतुं कृत्वा निवसन्त इति वा । समुद्रदमनसमर्थान्पुत्रा-
न्भाव्यस्यार्थे कल्पयामीत्यर्थः । यो मव्यो मे मह्यं सहस्रं गवाम् अमिमीत संह्या-
तवान् दातुं सर्वान् । वर्णद्वयलोपआर्षः । सननं विभजनं दानं तद्वान् । अतूर्तो
ऽहिंसितः श्रवः कीर्तिमहच्छिमानः सवान् यज्ञानिति । यथा भाष्यं वा ॥१८॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दशरथासो अस्थुः ।
षष्टिःसहस्रमनुगव्यमागात्सनत् कक्षीवां अभिपित्वे अह्नां ॥१९॥
ऋ. १. १२६, ३
राजा ने बैल युक्त काली लकड़ी वाले रथ मुझे दान में दिये,
जिनके पीछे छः सहस्र गायों का समूह था । अतः उसके दान से सन्तुष्ट
अर्थात् कक्षीवान् मैं यज्ञ के द्वारा सत्यपात्र में धन का रखूँगा अर्थात्
दशरथ को पुत्र की प्राप्ति कराऊँगा ।
उपमेति-- स्वनयेन राज्ञा दत्ताः श्यावाः कृष्ण काष्ठजाः दशरथासो रथाः
वधूमन्तः प्रत्येकं शकटीयुक्ताः मा उपास्थुः मम समीपे स्थितवन्तः । तथा षष्ठिः-
सहस्रं गव्यं गोयूथं च रथाननु जागात् आगतं मां प्रति, अतः कक्षीवानहं अह्नां-
ऋतून् अभिपित्वे सर्वतः पालयितरि सत्पात्रे ईश्वरे वा सनत् धनानि विभजन्
अस्मीति शेषः । दशरथपदप्रवृत्तिनिमित्तं प्रागुक्तं ज्ञापयन्नयं मन्त्रः प्रसङ्गादुपन्यस्तः
॥ १९ ॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणि नयन्ति ।
मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्तपज्राः ॥२०॥
ऋ. १. १२६, ४
दशरथ के यज्ञ में प्राप्त, मदयुक्त, सुनियन्त्रित, अत्यन्त वेगवान्
चार सहस्र लाल अश्व रथ के आगे चलते हैं। दान से सन्तुष्ट होकर
ऋषि ने अश्व गुण से सन्तुष्ट होकर उनके स्कंध देश से जुए को प्रेम
से हटा लिया !
चत्वारिंशदिति- दशरथस्य राज्ञो यज्ञे लब्धाः चत्वारिंशत्संख्याः शोणा
अरुणाश्वाः सहस्रस्य सहस्राश्ववाह्यस्यापि रथस्याग्रे पुरस्तात् श्रेणि रथनेमिपंक्ति
नयन्ति प्रापयन्ति, अतिवेगवत्त्वात् तांश्च मदच्युतः श्च्योतन्मदान् । कृशनावतः
कृशनं कर्शनं नियन्त्रणं तद्वतः सुशिक्षिता नित्यर्थः । अत्यान् अतिक्रम्य गन्तुर्महान्
मण्डूकगती नित्यर्थः । कक्षीवन्तः पुत्राः सादिनो भूत्वाऽश्वगुणसन्तुष्टाः
स्कन्धदेशे मार्जितवन्तः प्रेम्णा परामृक्षन्नित्यर्थः । यतः पूर्वं प्रज्राः पङ्क्त्यामेव