सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 48, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 48

१२ मन्त्ररामायण
च एकार्षेयत्वं सिद्धम् देवता तु तयोरिन्द्ररामशब्दाभ्यां निर्दिष्टः परमेश्वर एक
एव । यथा च रामायणीयप्रथमेऽध्याये प्रश्नपूर्विका संक्षिप्ता रामकथास्ति तथा-
स्मिन्नपि पञ्चर्चे इति अनयोर्मूलिमूलभावः सिद्धो व्याख्याय प्रदर्श्यते । तत्रेयमाद्या
ऋक् 'कं न' इति । अत्र वम्रः स्वस्य गुरुं कल्पयित्वा तं पृच्छन् तस्योत्तरमुखे-
नेश्वरं स्तौति--
यहाँ अपने गुरु की कल्पना करके वैखानस वम्र उनसे प्रश्न पूछते
हुए उनके उत्तर के माध्यम से ईश्वर की स्तुति करता है ।
कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाशं वावृधध्यै ।
कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥१॥
ऋ. १०. ९९, १
हे गुरु आप किस स्तुत्य, रमणीय, शौर्यवीर्यादिगुणों से युक्त पुरुष
की स्तुति करने के लिए हमें प्रेरित कर रहे हैं। मेरे द्वारा स्तुति करने
पर उसकी शक्ति क्या फल देगी ?
अर्थात् कौन स्तुति के योग्य है और स्तुति करने पर क्या फल देता
है ? उत्तर में कहते हैं : 'वह विवेक को तीक्ष्ण करके अज्ञान (वृत्रासुर)
का नाश करता है।'
भो गुरो त्वं चिकित्वान् स्तुत्यं पुरुषं जानन् कं चित्रादिगुणवन्तं वावृधध्यै
वर्धयितुं पराक्रमादिभिः स्तोतुम् अस्मान् इषण्यसि प्रेरयसि चित्रं रमणीयं
पृथुग्मानं पृथून् निरवधिकबृहत्त्व युक्तान् शौर्यधैर्यादीन् गतान् प्राप्तान् ब्रह्मादीन्
मिमीते परिछिनत्तीति तं पृथुग्मानं निरतिशयैश्वर्यं वाशं वर्णनीयं तथा तस्य
पुरुषस्य सम्बन्धिनः शवसः बलस्य व्युष्टौ प्रकाशे मया कृते सति तस्य कत् किं
दातु दानं स्तुतः सन् सः नः किं फलं दास्यतीत्यर्थः एवं कःस्तुत्यः किं च
स्तुतिफलमिति पृष्टे प्रथमं प्ररोचनार्थं फलं दर्शयति तक्षदिति । अश्वमेधपर्वणि
“ततो वृतं शरीरस्थं जघान भरतर्षभ । शतक्रतूरहस्येन वज्रेणेतीह नः श्रुतम्” ॥
इति कृष्णवाक्ये इन्द्रवृत्रवज्रशब्दैरात्ममोहकविवेका उच्यन्ते एतैरेव संकेतैः
कृत्स्नो वेदो व्याख्येय इत्येवमर्थः । ततश्च वज्रं स्तोतुर्विवेकं तक्षत् तनुकुर्वन् अम-
भावश्छान्दसः । तेन सूक्ष्मार्थभेदिना वृत्रतुरं स्वाज्ञानहन्तारं तं अपिन्वत्
अतर्पयत् स्तुत्या तुष्टः सन् तं विवेकं ददानि येनाज्ञाननाशादनर्थनिवृत्त्यानन्दावाप्ता
मद्यत इति पक्षेब्रह्म व्याहरणन्नेव भवतीति विषयप्रयोजने दर्शयते ॥ १ ॥
सहिद्युताविद्युतावेति सामपृथुं योनिमसुरत्वाससाद ।