मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 46, कुल 145 में से
संदर्भ में पढ़ें१० मन्त्ररामायण
विध्यर्थं स्मारयति । यथा "यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । तत-
स्त्वामेकविंशतिधा सम्भरामि सुसम्भृतम्" इति मन्त्रः कृष्णाह्वयब्रह्माख्यस्त्वं रूपप्रपञ्चं
निर्माय स्थावरजङ्गमात्मकं तं प्रविश्य तत्र तद्वस्तुतादात्म्यापत्त्या समिद्रूपोसि
ततो हेतोः त्वाम् एकविंशतिधा सम्भरामीति "तत्सृष्ट्वा तदेवानुप्राविशत्, तदनु
प्रविश्य सच्चित्यञ्चाभवत्" इति ब्राह्मणोक्तकथाप्रदर्शनपूर्वकं समिधां कृष्णभाव-
मापादयत् तासां सम्भरणं स्मारयति । यथा वा "यस्य रूपं विभ्रदिमामविन्द-
द्गुहां प्रविष्टा सरितस्य मध्ये । तस्येदं विहृतमाभरन्त" इति मन्त्रो यस्य वराहस्य
रूपं धारयन् परमेश्वरः भूमि समुद्रमध्येनिगूढस्थाने प्रविष्टामलभत्, तेनेदमुत्खातं
मृत्खण्डम् आभरन्तो वयमिति वराहावतारकथाप्रदर्शनपूर्वकं व