मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 45, कुल 145 में से
संदर्भ में पढ़ेंता मंत्रार्थवादैरपि कर्मणि रुच्युत्पादनार्थमनुपपन्नोऽप्यर्थः
प्रजाया अमृतत्वमात्मावपोत्खननमित्यादिरुपन्यस्यते “प्रजामनुप्रजायसे तदु ते
मर्त्यामृतम्” इति, प्रजापतिरात्मनो वपामुदखिदत् इति च । एवं च
कर्मस्तवकार्थवादानुसारिभाष्यकारीयं व्याख्यानममुख्यम् । अत एवोक्तं
भारते “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं
प्रहरेत्” इति तत्र उपबृंहणं नाम एकत्र मन्त्रे तृचे सूक्ते वा दृष्टस्यार्थस्य
संक्षिप्तस्य नानास्थानेषु विप्रकीर्णानां तदनुगुणानामर्थानामुपसंहारेण पुष्टिकरत्वम् ।
तच्च येन कर्ममात्रं न श्रुतं तेन कर्तुमशक्यम्, अतस्तस्मादल्पश्रुताद्वे-
दस्य भयं युक्तम् । भगवानपि “यामिमां पुष्पितां वाचम्” इत्यादिनाऽर्थ-
वादानां मोहकत्वं ब्रुवन् तदनुसारिणो व्याख्यानस्यानादरणीयत्वं दर्शयति