मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 43, कुल 145 में से
संदर्भ में पढ़ेंमन्त्ररामायण ७
व्यवस्थाया आवश्यकत्वाच्चान्यदेवतयो मंत्रो रामकथां प्रकाशयितुमीष्टे । अथ
हठात्तत्परत्वं वर्ण्यते तर्हि एकस्य शब्दस्यानेकार्थता स्यात् सा चानिष्टेति चेत् ।
उच्यते यथा एकैव रेखा स्थानभेदात् एकदशशतसहस्रादिव्यपदेशान् लभते
एवमेकमेव पदं वाक्यं वा पदान्तरवाक्यान्तरसमभिव्याहारादनेकमर्थं प्रत्याययति
न च तावतानानार्थत्वं शब्दस्य संभवति, अपि तु वृत्तिभेद एव तथाहि
एकमप्यमृतपदम् “यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥” इत्यत्र कैवल्यवाचि “अपाम
सोमममृता अभूम” इत्यत्र देवभाववाचि “प्रजामनुप्रजायसे तदुतेमर्त्यामृतम्
इत्यत्र सन्तानवाचि दृष्टम् । यथा वा “यज्ञेन यज्ञमयजंत देवा”
इति वाक्यम् ‘अवध्नन्पुरुषं पशुम्’ इत्यव्यवहितातीत