मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 42, कुल 145 में से
संदर्भ में पढ़ेंरयिं धनं तद्वत् । न शब्दोऽत्र उपमार्थे तं तथाभूतं मां अश्विनौ युवां नौभिः
वह्नीभिर्नौकाभिः उसैन्धम् ऊहथुः तीरं प्रापयामासथुः । कीदृशीभिः- आत्मन्वतीभिः,
आत्मा स्वामी विद्यते यासां ताभिः स्वीयाभिः अन्तरिक्षे गगनतुल्येऽर्णवे प्लवन्ते
ताभिरन्तरिक्षप्रुद्भिः, अपोदकाभिरपगतजलाभिः इत्यश्विदेवत्यैकर्मणि विनि-
युक्तस्यास्य मन्त्रस्य याज्ञिकाभिमतोऽर्थः कर्मसमृद्ध्यर्थः “एतद्वै यज्ञस्य समृद्धं
यद्रूपसमृद्धं यत्कर्मक्रियमाणमृगभिवदति” इति ब्राह्मणाच्च । तत्कर्मारेवमेवायं
व्याख्येयः । तथा “ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति यइत्तद्विदुस्त इमे समासते ॥” इति मन्त्रेण सर्वासा-
मृचां सर्वेन्द्रियदेवताधिष्ठानभूतपरमव्योमशब्दितान्तःकरण