मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 41, कुल 145 में से
संदर्भ में पढ़ेंमन्त्ररामायण ५
देवस्य चतुर्विधं ध्यानं चतुर्विधभक्तकृतं चतुर्थश्लोकेन दर्शितम् ॥ ४ ॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ५ ॥
घुटने की रक्षा समुद्र पर सेतु का निर्माण करने वाले करें । जंघाओं
की रक्षा दशमुख का वध करने वाले करें । पैरों की रक्षा विभीषण
को ऐश्वर्य प्रदान करने वाले करें और मेरे सम्पूर्ण शरीर की रक्षा
श्रीराम करें ।
अथ व्यष्टिपरीत्या नैनाव्यक्तावलम्बनाया गतेः संसारसमुद्रसेतुरूपायः प्रदाता
सेतुकृत् जानुनी शिशोः प्रथमगतिसाधने मे पातु अनेन स्थूलदेहातिक्रम उक्तः
अस्यामवस्थायां ध्यायी विदेह इत्युच्यते १७ । तथा दश इन्द्रियाणि मुखानि
भोगद्वाराणि यस्य स दशमुखो लिङ्गात्मा तस्यान्तको नाशकः प्रविलापयिता
दशमुखान्तकः ईषद्वद्धोर्द्धगस्य शिशोः मन्दोर्ध्वगतिसाधने जंघे मे पातु, एतेन लिंग-
देहातिक्रम उक्तः अस्यामवस्थायां ध्यायी प्रकृतिलय इत्युच्यते १८ । तथा विगतं
भीषणं भयङ्करमज्ञानं यस्य स विभीषणो निरस्ताविद्यः तस्मै श्रीः 'एषास्य परमा
सम्पत्' । इति श्रुतिप्रसिद्ध आनन्दः तस्याः प्रदाता विभीषणश्रीदो निघृष्टतलतया
शीघ्रगतिहेतू पादौ मे पातु, एतेनानर्थनिवृत्तिपूर्विका आनन्दावाप्तिरुक्ता, अस्या-
मवस्थायां ध्यायी मुक्त इत्युच्यते १९ । रामः सर्वेश्वरतया ब्रह्माण्डमण्डपे रमणशीलो
मम जीवन्मुक्तभावं कामयमानस्य अखिलं वपुस्त्रिविधमपि शरीरं पातु समस्तयोग-
प्रतिपक्षनिरासेन ब्रह्मसाक्षात्कारक्षमं करोत्वित्यर्थः २० । तदेवं ब्रह्मणि राघवपदेना-
ध्यारोपितस्य प्रपञ्चस्य दंशरथात्मजादिपदत्रयेणापादितस्याधिष्ठानं प्राप्तुं ध्याना-
लम्बभूतं भगवतः समष्टिरूपं व्यष्टिरूपं च द्वाभ्यां श्लोकाभ्यां प्रदर्श्य व्यष्ट्युपासनां
चतुर्थेन समष्ट्युपासनां पञ्चमार्थेन च प्रदर्श्य शेषेणानर्थनिवृत्त्यानन्दावाप्ती
जीवन्मुक्तिसहिते निरूपिते इति अर्थश्च कृत्स्नः शास्त्रार्थोस्तीति प्रदर्शनेन रामायण-
द्रुमांकुरस्य रामकवचस्य गायत्रीबीजत्वमुपपादितम् । यथात्र कथांशः स्पष्टं
सूच्यते अध्यात्मांशस्तु परोक्षवृत्त्या गम्यते, एवं रामायणे तन्मूलभूते वेदे च तदुभयं
ज्ञेयम् ॥ ५ ॥
तथा हि :—"मन्त्रह्रदात्कथाकुल्या विद्याकेदारमागता ॥ मोक्ष (रस) स्य
च प्रसूर्मध्ये पीयते कर्ममार्गगैः ॥१॥ इदमाम्नायते—"तुग्रो (ह) भुज्युमश्विनोदमेघे
रयिन्न कश्चिन्ममृवां अवाहाः ॥ तमूहथुनौंभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोद-
काभिः ॥ १ ॥ तुग्रो नाम कश्चिद्राजा भुज्युसंज्ञं स्वपुत्रम् उदमेघे समुद्रे अवाहाः
प्रापितवान् । तत्र दृष्टान्तः—रयिं न कश्चिन्ममृवानिति । यथा कश्चिन्मृतः पुरुषो