मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 39, कुल 145 में से
संदर्भ में पढ़ेंमन्त्ररामायण ३
मेरे शिर की रक्षा राघव करें, मस्तक की रक्षा दशरथपुत्र करें।
कौशल्यापुत्र मेरे नेत्रों की रक्षा करें। विश्वामित्र के प्रिय मेरे कानो
की रक्षा करें। यज्ञ के रक्षक मेरी नासिका की रक्षा करें। मुख की
रक्षा सौमित्रिवत्सल करें। जिह्वा की रक्षा विद्यानिधि करें, तथा भरत
से पूजित (राम) मेरे कण्ठ की रक्षा करें।
रंघति नाशं गच्छतीति रघुः व्यष्टिसमष्टिरूपो अन्नमयःकोशःतत्र विदितो
राघवःब्रह्माण्डाभिमानी मम ब्रह्माण्डरूपं शिरः पातु १ स एव दशरथस्य दशभि-
रिन्द्रियाश्वैर्य्युक्तस्य मनोमयकोशरूपस्य आत्मैवात्मा कार्यं प्राणमयः कोशस्तज्जः
तेन अन्नमयादान्तरः प्राणमयः ततोप्यान्तरो मनोमय इति पूर्वयोः प्रविलापनं
सिद्धम्, स च वासनातन्तुसन्तानात्मा मनोमयः ब्रह्माण्डासृष्टिकमेणार्वाचीनं
भालदेशं ब्रह्मलिपिस्यानं मे पातु २ कुशलैव कौशल्या स्वार्थे ष्यञ् सर्वाथाविद्योतन-
समर्थाबुद्धिस्तस्यां भवः कौसल्येयो विज्ञानमयः ततोप्यान्तरः स मम दर्शनसाधने
दृशी पातु एतेन मनोमयस्याप्यपवाद उक्तः ३ । विश्वस्य मित्रं निरुपाधिप्रेम-
गोचरतया प्रेयान् आनन्दमयाख्य आत्मैव विश्वामित्रः तस्यापि प्रियः 'सुषुप्तोसता
सौम्यतदासम्पन्नो भवति' इतिश्रुतेः प्राप्तः सन्नात्यन्तिकदुःखनिवृत्तिकरस्तदधिष्ठान-
भूत आनन्दः पुच्छंब्रह्मापरपर्यायो मम श्रुती स्वाधिगमद्वारभूते पातु तदेवं प्रथमेन
पादेन रामे ब्रह्माण्डमारोप्य अन्यपादनत्रयेणापोह्य च रामस्य शुद्धं रूपं गायत्री-
प्रथमपादोक्तं दर्शितम् अयं चार्थः कृत्स्नोपि वेदान्त प्रसिद्ध इति मूलवाक्यानि
नोदाहृतानि ४। यज्ञत्राता अव्यभिचारेण ऋतुफलप्रदः फलमतउपपत्तेः इति
न्यायादिति भावः । स मे ऋतुफलभूतदिव्यगन्धरसानुपलब्धिकरणं घ्राणरसना-
दिकं पातु ५ सौमित्रिवत्सलः सुष्ठु मित्रं जीवपक्षिणः सखा ईश्वरः तस्यापत्यं
सौमित्रिर्हिरण्यगर्भः तत्र वत्सलः तेन तत्तादात्म्यं प्राप्तानामुपासकानां अनुग्रह-
कर्तेत्युक्तम् सौमित्रेर्मुख्यकार्यत्वात्तद्वत्सलो मे मुखं पातु ६ । तावेतापन्तर्यामिसूत्रा-
त्मानौ विद्यैकलभ्यौ न तु शुष्कतर्कगम्यौ इति विद्यावाप्तिद्वारभूतां मम जिह्वां
विद्यानिधिः विद्यासम्प्रदायप्रवर्त्तकः पातु ७ । विद्यापि यज्ञाद्यपूर्वप्राप्या "विधि-
द्विषन्ति यज्ञेन" इत्यादिश्रुतेः "अतो भरतैः कर्मठैर्वन्दितः शरणीकृतः भरन्ति-
कर्मफलं सञ्चिन्वन्ति ते भरताः यजमानाः भरतमुद्धर' इति मन्त्रलिंङ्गात् यज्ञश्च
कण्ठस्थ्यैरेव मन्त्रैः स्तोत्रशस्त्रादिभिर्निर्वर्त्यत इति यज्ञप्रियो मे मन्त्रोच्चारणस्थानं
कण्ठं पातु तदेवं यज्ञादिजन्येन पुण्येन प्राप्तोपासनामार्गः मगृह्यं सूत्रमीशं वा
क्रममुक्तिद्वारं प्राप्नोतीति श्लोकद्वयतात्पर्यम् ॥८॥१-२॥
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेश कार्मुकः !