मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 38, कुल 145 में से
संदर्भ में पढ़ें२ मन्त्ररामायण
संगच्छते । तथा रामायणस्य वेदत्वोक्त्या प्रत्यक्षवेदमूलतत्त्वोपपादकम् 'वेदवेद्ये-
परे पुंसिजाते दशरथात्मजे । वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥
तस्माद्रामायणं देवि वेद एव न संशयः” इत्यगस्त्यसंहितावचनम् “स तु मेधा-
विनो दृष्ट्वा वेदार्थपरिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ काव्यं
रामायणं कृत्स्नं सीतायाश्चरितं महत्” इति तस्य वेदोपबृंहणप्रयोजनकत्वं
प्रतिपादयदार्षं वचनं च संगच्छते । तत्र गायत्र्यर्थस्तावत्सवितुः ब्रह्माण्डवृक्ष-
प्रसवभूमेः तत् प्रसवितृरूपं भूर्स्थानीयं वरेण्यं वरणीयं मोक्षकामैर्ब्रह्माण्डवृक्ष-
प्रविलापनेनानुसर्तव्यम् एवं च “तदिति वा एतस्यमहतो भूतस्य नाम भवति”
इति श्रुतेस्तत्पदोदिते ब्रह्मणि सवितृपदेन कार्यमात्रमध्यारोप्य वरेण्यपदेन तदपोद्य
निष्प्रपञ्चं ब्रह्मणः पारमार्थिकं रूपं निरूपितं तथा तस्यैव सवितुर्भर्गः अभिर्गति-
रस्येति व्युत्पत्त्या सूर्यमण्डलान्तःस्थं नारायणाख्यं ज्योतिः “य एषोन्तरादित्ये
हिरण्मयः पुरुषः” इत्यादिश्रुतिप्रसिद्धं मायाविक्षेपमुपास्यं निर्दिष्टं धीमहीत्य-
नेनान्वयात् तथा देवस्येति तस्यैव ब्रह्माण्डान्तर्नानावतारैः क्रीडतो रामकृष्णादि-
रूपं तृतीयं रूपमुक्तं तथा धीमहीति विरोधपूर्वकं स्वार्थमुभयार्थमीश्वरार्थं चेति
चतुर्द्धा भजनं दर्शितं तथा तृतीयपादे बहिर्मुखस्वभावायाबुद्धेः अन्तर्मुखतया
प्रकर्षेण प्रेरणे प्रत्यगात्मप्रधाने कैवल्यरूपेपदस्य हेतुत्वप्रदर्शनेन तस्यैव सकलकर्मो-
पास्तिफलप्रयोजकत्वमुक्तम् एवं च गायत्र्यां काण्डत्रयं दर्शितं तथा च मैत्रायणी-
श्रुतिः— “तत्सचितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं प्रवरणीय
आत्मकामेनेत्याहुर्ब्रह्मवादिनः” इति । भर्गोदेवस्य धीमहीति सविता वै देवस्त-
तोयोस्य भर्गस्तं चिन्तयामीत्याहुर्ब्रह्मवादिन इति । धियो योनः प्रचोदयादिति
बुद्धयो वै धियस्ता योस्माकं प्रचोदयादित्याहुर्ब्रह्मवादिन.” इति अत्रात्मकामेन
प्रवरणीय इति सवितुः प्रत्यगात्मत्वं ज्ञानकाण्डार्थ उक्तः चिन्तयामीति चिन्ता-
योग्यत्वमुपासनाकाण्डार्थ उक्तः । धिय इत्यनेकाकारधीप्रेरकत्वं कर्मकाण्डार्थ उक्तः
तत्राद्य उपेयः परो सन्निकृष्टविप्रकृष्टौ तत्प्राप्त्युपायौ । एवं वेदमातुर्गायत्र्याः
काण्डत्रयात्मकत्वेन तज्जानां वेदानां तन्मूलकानां रामायणादीनां च तथात्वं
ज्ञेयम् एत एवार्था राघवादिविशतिनामभी रामरक्षायामक्षरार्थद्वारा प्रदर्श्यन्ते ।
तथाहि :—
शिरो मे राघवः पातु भालं दशरथात्मजः ।
कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥ १ ॥
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ॥ २ ॥