सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 124, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 124

८८ मन्त्ररामायण
नागपाशबन्धाद्याः जघ्नथुः नाशयामासथुः युधां वृषशिप्रेय महोक्षसदृशशरीरस्य
पृतनाज्येषु पक्षे यज्ञोपयोगाय माया लयविक्षेपरूपाः ॥ १२७ ॥
हरयो धूमकेतवो बातजूता उपद्यवि ।
यतन्ते पृथगग्नयः ॥१२८॥
ऋ० ८. ४३, ४
धूमकेतु के समान पूँछ वाले वानर, अन्तरिक्षचर राक्षसों को मारते
हैं और अग्नि के समान नष्ट करने में समर्थ हैं ।
हरय इति-हरयो वानराः, धूमवत् धूसराः केतुवदूर्ध्वंकृतानि पुच्छानि येस्ते
धूमकेतवः, वातो जूतो अतिवेगात् प्रवर्तिता यैस्ते वातजूताः उपद्यवि अन्तरिक्षे
यतःते अन्तरिक्षचरान् राक्षसान् बाधितुं यत्नं कुर्वन्ति पृथक् पृथक् प्रत्येकमिति
यावत् । अग्नयः अग्निवदितरनैरपेक्ष्येण सर्वं राक्षसकुलं दग्धुं क्षमा इत्यर्थः ॥ पक्षे
हरय इन्द्रियाणि हार्दाकाशे यतन्ते प्रवेष्टुमिति शेषः । अग्निवन्निर्दोषः ॥१२८॥
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादश ॥१२९॥
ऋ० ६. ४७, १८
राक्षसों के अनेक रूप धारण करने पर राक्षसों के प्रत्याख्यान के
लिये राम ने भी अनेक रूप धारण किये । राम माया से बहु रूप को
प्राप्त होते हैं। सहस्रों वानर राम के अनुवर्ती हैं और राम ही सभी
वानर रूपों में स्थित हैं ।
रूपमिति-रूपं रूपं प्रतिरूपो बभूव, यावन्ति राक्षसानां रूपाणि तावन्ति
तत्प्रतिकूलानि रूपाणि दधारेत्यर्थः । तदस्य रामस्यानेकरूपत्वं प्रतिचक्षणाय
विराधिरूपान्तरप्रत्याख्यानाय । न तु राम एव विश्वरूपांस्ति, अतस्तेषु रूपेषु
स्वावयवेष्विव अन्योऽन्यं बाध्यबाधकभावो न युक्त इत्याशंक्या- इन्द्र इति । इन्द्रो
रामः पाशान्यायेन बहुवचनमवयवाभिप्रायम् । तथा च सत्त्वप्राधान्येन देवरूपः,
रजः प्राधान्येन असुररूपः, तमःप्राधान्येन राक्षसरूप इति पुरुरूपो बहुरूप ईयते
गम्यते । यथा सर्वरसोपादानस्यापि जलस्य स्वाभाविकं माधुर्यमिक्षुद्राक्षादिष्वति-
शयेनाभिव्यज्यते । निम्बूमरिचादिषु तदभिभूयोपाधिकमम्लत्वकटुत्वादिकं प्रथते
तद्वदिदं द्रष्टव्यम् । अतस्तेषां बाध्यबाधकभावो युज्यत एव । हि यस्मात् अस्य
इन्द्रस्य दशशता सहस्रम् अनन्ता इत्यर्थः । हरयो वानरा राममनोऽनुवर्तिन-
कायव्यूहे योगिशरीरांतरवद्युक्ताः सन्नद्धाः दृश्यन्त इति शेषः । राम एव सर्ववानरः