सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 102, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 102

६६ मन्त्ररामायण
सीता उसे देखकर उसी प्रकार प्रेमयुक्त हुई जैसे बछड़े को देखकर गाय
दुग्धयुक्त हो जाती है।
तदेवं स्वामिभक्तान् वानरान् ज्ञात्वा सम्पातिरप्यनुजग्राहेत्याह-ऋषभो
वैश्वामित्रो नवर्चैन सूक्तेन आदक्षिणेत्यादिना। शुष्मी बलवान् हरिर्वानरः आ
दक्षिणा दक्षिणदिगभिमुखम् आसृज्यते आज्ञाप्यते सीतान्वेषणार्थी त्वं दक्षिणस्यां
दिशि लंकायां तस्या अन्वेषणं कुर्वित्याज्ञाप्यते, अर्थात् सूक्तांते दृष्टेन दिव्येन
सुपर्णेनेति गम्यते। एवमाज्ञप्तमात्रो हरिः आसदम् आसीदंत्यस्मिन्निति रामस्य
गृहं सीतारूपं वेति प्राप्नोति। तत्राप्य जागृविः जागरूकः सन् द्रुहो द्रोग्धुः रक्षसो
रावणात् पाति आत्मानमिति शेषः, स एव हरिः ओपशं सर्वस्य धारकं नभः
अव्याकृतं मायामयं सीतारूपं पयः पयस्वत् प्रसवयुक्तं कृणुते करोति, वत्सं गौरिव
सीता तमवेक्ष्य स्निग्धा अभूदित्यर्थः। कस्मै प्रयोजनाय-चम्वोः वानरराक्षससेनयोः
उपस्तिरे उक्तलक्षणाय तत्पूर्वकाय चम्वोः संग्रामाग्नौ होमायेत्यर्थः। होमस्यापि
प्रयोजनं ब्रह्मनिर्णिजे ब्रह्मणः ब्रह्मांडस्य कंटकोद्धरणेन शोधनाय, येन कंटका एव
मृताः, वानरास्तु मृता अपि पुनरुत्थापिता इति ध्वनितम् ॥ ८६ ॥
प्रकृष्टिवेव शूष एति रोरुवदसूर्य १ वर्णन्निरीणीते असुर्यतम् ।
जहाति वन्नि पितुरेति निष्कृतमुपप्रुतं कृणुते निणिज तना ॥८७॥
ऋ. ६. ७१, २
सीता को खोजने वाले वानरों ने राक्षसों को पीटकर गर्जनादि
मात्र से रावणादि को दीन बना दिया और उसने अल्परूप को त्याग
कर विशालरूप धारण कर लिया। वह पिता वायु के द्वारा वेगवान
हो गया और सीता के पास जाकर पुनः लघु रूप हो गया।
आसृष्टो हरिः कथं तां दिशं गतवानित्यत आह-प्रकृष्टिवेवेति । स आसृष्टो
हरिः शूषः सीतायाः शोधकः कृष्टिवेव कृष्टयः कर्षकाः लोकानां पीडका राक्षसा-
स्तान्हन्तीति तथा तेषां काल इव क्रूरः प्रेति प्रकर्षेण गच्छति । रोरुवत् गर्जन्
अस्य कर्षणकर्तुः रक्षोगणस्य वर्णं मुखच्छायाम् असूर्यम् अतिक्रूरं तं प्रसिद्धं
निर्जिणीते निर्गमयति प्रगतमात्रो रावणादीन् दीनान् करोति किं च वन्निम्
आवरणम् अल्पकायस्वरूपं जहाति त्यजति महद्रूपं धारयतीत्यर्थः । तथा-पितुः
वायोः निष्कृतं निश्चितं कृतं वेगवत्त्वम् एति प्राप्नोति ततश्च उपप्रुतं सीतायाः
समीपं गन्तुं प्रुतं प्लवनं कृणुते करोति निणिजं विशुद्धं यथा स्यात्तथा उपप्रुतं
कृणुते तना विस्तारेण महता रूपेण ॥ ८७ ॥