मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 86, कुल 856 में से
संदर्भ में पढ़ें९] ग्रामलक्षणम् ५१
वीथीनां पार्श्वयोर्देशे वीथिकाद्यैरलङ्कृतम् ।
एकाद्यर्कतलं स्थलं स्यात्कारयेत्तद्यथेच्छया ॥ २६५ ॥
निम्नोन्नतं तु तत्सर्वं हर्म्यमेवं समोन्नतम् ।
प्रभूतालयसर्वेषां चाधिकोन्नतमेव च ॥ २६६ ॥ 532
वीणिजायालयं सर्वं चैकभौमावसानकम् ।
एवं तु चोक्तवत्कुर्यात्सर्वसम्पत्करं शुभम् ॥ २६७ ॥
कन्यकादिधनरत्नसंग्रहं शालिभूमिगृहदासि(सी)वाहनम् ।
शिल्पिनां च गुरवे निवेदयेत्कर्तृ(र्त्री) भक्तिवरदहस्ततोवभृत् ॥ २६८ ॥ 536
लाभात्कुर्यादुक्तसंमान(नं) हीनं कर्ता यावद्भूमिचन्द्रं पतेत्स ।
तस्मात्कर्ता चोक्तसंमानजालं सर्वैश्वर्यं काम्यसिद्धिः लभ्ये(भे)त ॥ २६६ ॥
इति मानमारे वास्तुशास्त्रे ग्रामलक्षणविधानं नाम नवमोऽध्यायः ।