सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 78, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 78

एतत्सर्वं महाद्वारमुपद्वारमिहोच्यते ।
नागे वाऽपि भृगे वाऽ[प्य्]थादितिश्रो(तौ चो)दिताऽपि वा ॥ १५३ ॥
पर्जन्ये वाऽन्तरिक्षे वा पूषे(पूष्णा) वा विधातेऽवा ।
गन्धर्वे भृङ्गराजे वा सुग्रीवे वाऽसुरेऽथवा ॥ १५४ ॥
'यथेष्टमेवमुपद्वारं कुर्यात्तल्लक्षणोक्तवत्(यदिमुक्तलक्ष्मवत्) ।
मुख्यके वाऽथ भल्लाटे मृगे चोदितेऽथवा ॥ १५५ ॥
जयन्ते वा महेन्द्रे वा सत्यके वा[ऽथ] भृशेऽथवा ।
एवमेवं जलद्वारं कुर्यात्तत्र विचक्षणः ॥ १५६ ॥
ब्रह्मणो वाऽग्निदेशे वा मित्रे वा मण्डपं भवेत् ।
भूधरे वाऽसुरे वाऽपि सभास्थानं प्रकल्पयेत् ॥ १५७ ॥
नन्द्यावर्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
पद्माख्यं(ख्य)वास्तुविन्यासल्लक्षणं वक्ष्यतेऽधुना ॥ १५८ ॥
दीर्घ(दैर्ध्य)मायसमं कृत्वा बाह्ये वप्रं सुवृत्तकम् ।
चतुरश्राश्रकं वाऽपि षडश्रं वा विधीयते ॥ १५९ ॥
चण्डितं स्थण्डिलं वाऽपि यथेष्टं पद(दं) विन्यसेत् ।
शूलषट्वांवि(थि)राख्ये च नरालयं प्रकारयेत् ॥ १६० ॥
तद्दे(तत्तद्दे)शे स[र्व]दा स्थाप्यं मण्डपं वा सभा भवेत् ।
बहिः(द्विश्च) सर्वस्थलेषु(रथ्यासु) पञ्चैरावर्तकेषु(कासु) च ॥ १६१ ॥
चतुः(तुष्)पञ्च च षट् सप्त चाष्टकं वाऽथ वीथिका ।
मध्ये वीथिं विना कुर्याच्चतुर्द्वारकल्पनम् ॥ १६२ ॥
एवं तु पद्मविन्यासं शेषं प्रागुक्तवन्नयेत् ।
स्वस्तिकस्यापि विन्यासल्लक्षणं वक्ष्यतेऽधुना ॥ १६३ ॥
यत्तदायामविस्तारे न्यसेत्परमशायिकम् ।
तत्पैशाचपदे चैव रथ्या तत्परितस्तथा ॥ १६४ ॥
तस्यान्तः स्वस्तिकाकारं विन्यसेच्छिल्पि(रूप)वित्तमः ।
प्राक्प्रत्यक् च समायामं वास्तुमध्ये तु वीथिका ॥ १६५ ॥
दक्षिणोत्तरमायामं पूर्वमध्ये तु वीथिका ।
वीथीम् एतद्वयं प्रोक्तं तन्मध्ये कर्करीकृतम् ॥ १६६ ॥