मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 76, कुल 856 में से
संदर्भ में पढ़ेंदक्षिणे कर्मकारस्य तत्र श्रेण्यालयं भवेत् ।
उत्तरे चाग्निदेशे वा पेटिकारालयं भवेत् ॥ १२५ ॥
पश्चिमे पूर्वके वाऽपि शङ्खकर्मकरालयम् ।
उत्तरे चर्मकारस्य तच्छ्रेण्यालयमेव वा ॥ १२६ ॥ 252
अन्यशा(दा)वरणाः(णाम्) सर्वमन्य[त्]कर्मोपजीविनाम् ।
एवं नरालयं प्रोक्तं देवानामधुनोच्यते ॥ १२७ ॥
आर्यादिषु चतुर्दिक्षु ग्रामस्यापि चतुर्दिशि ।
एवं यथेष्टदिग्देशे विष्णुधिष्ण्यं प्रकल्पयेत् ॥ १२८ ॥ 256
अथवा बहिरङ्गे तु चेष्टदिग्विष्ण्व(ष्णो)रालयम् ।
इन्द्रादिषु चतुर्दिक्षु विष्णुस्थानं तु राजसे ॥ १२६ ॥
पूर्वके श्रीधरं प्रोक्तं दक्षिणे वामनं तथा ।
पश्चिमे वासुदेवं वा चादिविष्णुं जनार्दनम् ॥ १३० ॥ 260
उत्तरे केशवं प्रोक्तं नारायणमथापि वा ।
अन्तः प्रागुत्तरे देशे विष्णुमूर्तिर्(र्ति) यथेष्टकम् ॥ १३१ ॥
पितृदेवेशकोण्ये वा य(त)था नृसिंहालयं भवेत् ।
अग्निकोणे य(त)था रामं गोपालालयमेव वा ॥ १३२ ॥ 264
मित्रे च त्रितलं कुर्यात्स्थानकं चादिभूमिके ।
द्वितीयं(ये) चासनं प्रोक्तं तृतीये शयनं भवेत् ॥ १३३ ॥
अथवा स्थानकं चोर्ध्वे शयनं मूलकस्थले ।
इष्टदिग्विष्णुहर्म्याणां द्वारं कुर्याद्विचक्षणः ॥ १३४ ॥ 268
ग्रामस्याभिमुखं विष्णुं नरसिंहं पराङ्मुखम् ।
लक्ष्मी नृसिंहश्चैवाऽपि ग्रामस्याभिमुखो भवेत् ॥ १३५ ॥
रुद्रं रुद्रजये वाऽपि इ(त्वि)न्द्रश्चेन्द्रजयेषु च ।
आपवत्सा(त्सा)पवत्सश्च साविन्द्र(त्र)श्चा(श्च) सान्द्रके(सवित्रके) ॥ १३६ ॥ 272
ईशे वाऽथ जयन्ते वा पर्जन्यस्य पदेऽपि वा ।
एवमीशालयं कुर्याद्ग्रामस्य तु पराङ्मुखम् ॥ १३७ ॥
पूर्वके पश्चिमे वाऽपि तत्रैवाभिमुखं भवेत् ।
अन्य[त्]सकलरूपाणां हर्म्यद्वारं यथेष्टतः ॥ १३८ ॥ 276