सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 75, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 75

४० मानमारे [अध्यायः
सप्तकं(काः) वा तथा रथ्या वा [यथा] विशालं तथा न्यसेत् ।
दक्षिणे प्रथमारेथ्ये(मरथ्यायां) वैश्यकानां तु वेश्मानि ॥ १११ ॥
वारुणे चक्रवर्ती स्यादेवमालयस्य विधिः ।
अथ मित्रपदे चैव जयन्ते रुद्रजये तथा ॥ ११२ ॥ 224
एवं राजगृहं प्रोक्तं तत्रैव(व) योधकालयम् ।
नैर्ऋत्ये च पदे देशे श्रीकराणां तु हर्म्यकम् ॥ ११३ ॥
सामन्तप्रमुखादीनामसुरे सोष्ट(शोष)केऽपि च ।
तत्रैवामाल्यहर्म्यं स्यात्स्वामिकालयमेव च ॥ ११४ ॥ 228
पुरोहितालयं सुग्रीवे पुष्पदन्तपदेऽपि च ।
दौवारिकञ्च सुग्रीवे रचका[रा]लयं भवेत् ॥ ११५ ॥
गन्धर्व रोगशेषे वा वाद्यकाद्यादेरालयम् ।
तत्रैव गणिकादीनां नृत्ययोग्यादिरा(दिका)लयम् ॥ ११६ ॥ 23