मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 470, कुल 856 में से
संदर्भ में पढ़ेंपरिशिष्टम् [४३५]
उपपीठेऽथ शेषं गुणभागं विभा(जि)ते
अधिष्ठानं तदेकांशं द्विभागं चरणोदयम्
पादबन्धमधिष्ठानं पादान् बाह्यधरातलाम्
मूलवस्तुनिरीक्ष्यैव पादाधिष्ठामक्षकम्
अथवा द्वारतुंगं तु षड्भागं तु विभाधि(जि)ते
गुणांशं चोपपीठ स्यात् एकांशं तु धरातलम्
द्विभागं चरणायाम एवमेवं विधीयते
उपपोगे(ङ्गे)ऋतुभागं मङ्घ्रिभागं विधीयते
एकांशं तु मसूरश्च पादायामद्विभागया
पकांशं प्रस्तरोत्सेधं कल्पयेत्कल्पवित्तम्
अथवान्यप्रकारेण उपपीठोक्तवत् कुरु।
शेषंतु पूर्ववत् कुर्यात् युक्तायुक्तं द्विजोत्तमा
होमान्तं सीमान्तं वा चरणायामे विधीयते
पादबन्धमधिष्ठानं हारशोभादिना कुरु।
स्तूप्यान्तं उत्तरान्तं च रसविभागं विधीयते
सपादं प्रस्तरोत्सेधं सत्यांशं गलतुंगकम्।
पाद्येन अश्रि(स्रि)नीभागं तु शिखरं शिखरे
शेषं शिखोदकं
एकमेव तलं प्रोक्तं द्वितलं शृणु सुव्रतम्।
उत्तरादिस्तूपिपर्यन्तम्
उत्तरादि शिखान्तं च नवभाग विभाधि(जि)ते
प्रस्तरोत्सेधं सपादांशं तद्वयं चरणोदयम्।
मञ्चमानं शिवांशेन तत् समं कन्धरोदयम्
शिखरं सार्धत्र्यंशां त्रिपादं तु शिखोदयम्
द्वितलं ह्येवमाख्यातं त्रितलञ्चाधुनोच्यते।
स्तूप्यान्तं उत्तरादीनां भानुभागं विभाजिते
प्रस्तरोत्सेधं सपादांशं सार्धद्वयंशांघ्रितुंगकम्
कपोताञ्च शिवांशेन चरणायां द्विभागया
मञ्चमानं शिवांशेन चैकभागेन कन्धरम्
शिखरोच्चं तु पक्षार्धं शेषभागं शिखोदयम्
त्रितलं ह्येवमाख्यातं चतुर्भूमिमथोच्यते।
उत्तरादिशिखान्तन्तु द्विनवांशनिभाजिते
पाहुनाद्वयंशमंचाञ्च गुणांशं चरणोदयम्
तदर्ध प्रस्तरोत्सेधं सार्ध इंशांघ्रितुंगकम्
तदर्धं च मानञ्च द्विभागं चरणोदयम्
तदर्धं प्रस्तरोत्सेधं तत् समं गलमुच्यते
गुणांशं शिखरोत्सेधं शिखामानं शिवांक्षकम्
चतुर्भूमिसमाख्यातं पञ्चभूमिमधे,च्यते।
शिखान्तं तूत्तरादिश्च त्रयोविंशतिभागया
द्विभागं प्रस्तरोत्सेधं सार्धैबन्यांघ्रि तुंगकम्।
तदर्ध मञ्चमानं तु त्रिभागं चरणोदयम्।
तस्यार्थं(र्धं) प्रस्तरोत्सेधं चरणस्येवार्थं(र्धं)पक्ष कं
तदर्धं(र्धं) मञ्चमानं तु पादतुंगं द्विमाधि(जि)ते
प्रस्तरोक्षं(ञ्चं) शिवांशेन कन्धरोञ्चं शिवांक्षकम्
सार्धद्वयंशं शिरस्तुंगं शेषमेके शिखोदयम्।
पञ्चभूमिसमाख्यातं रसभूमिमथोच्यते
हस्तमादिशुभाख्यातं त्रायादिशुभसंख्यया
एकादिपञ्चभूम्यान्तं वक्ष्ये संशिल्पशास्त्रतः
त्रिचतुर्हस्तमारभ्य नवपङ्कति विस्मृतम्
सप्तादशकराह्वये द्वितलादि विमानकम्
तारे सप्तदशोत्सेधं अन्यर्थे तु त्रिपादकम्
द्विगुणं तु तदुत्सेधं शान्तिकम् पौष्टकमानथा
धयदं चाद्भुतं चैव चतुर्योदयमीरितम्
चतुरं वृत्तमायामं द्व(द्व्य)श्रवृत्तं षडश्रकम्
अष्टाश्रममाकृतिरयौष्टां शिखरेयन् तथैव च।
समन्त्रिपादमर्धं वा मुखमण्डपमिष्यते
समन्तमखपं यस्या शास्तगलकम सवेशकम्
एकहस्तद्विहस्तं प्रासादांशांशमेव वा
अन्तलयस्य विस्तारं द्विद्गडम् तस्यवेशनम्
युग्मस्तंभसमायुक्तं युक्त्या सर्वांगशोभितम्
सावकाशान्तरालं चेत्तद्वित्रिहस्तारं तु वा
पार्श्वे सोपानसंयुक्तं हस्त हस्त विभूषितम्
धर्मं कुस्त्यार्थकं तत् समं पापादुनवाभि *********
विष्कंभमानकम्
तथुक्ततायातकरेपु हस्तमानादीनं त्रिपा *********
हानत्रिपादकरमर्धं मथाविधातम्।
तत्रैववस्तुनि यथोचितमाकरैश्चै हानिश्चा
वृत्तिकमनिन्दामनेकशाजैः
55