मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 469, कुल 856 में से
संदर्भ में पढ़ें४३४ ] मानमारे
[स्तम्भ १]
सप्तगोपुरमाख्यातं षोडशानां तलात्मकम्
अंशं पूर्ववदुद्दिष्टो तले तले तु वर्धयेत्
उत्तरादिरथूपिपर्यन्तं शाखोक्तं तु प्रगृह्यतां
विस्तारामयोर्मध्ये बाकवाह्यामुच्यते ।
विस्तारस्य त्रिभागैकं चतुर्भागैकमेव च
पञ्चभागे द्विभागं वा सालात् बाह्ये तु निर्गमः
सार्धहस्तं समारभ्य षट्षडंगुलवर्धनात्
पञ्चहस्तविधियोंवत् क्षुद्राणां द्वारविस्तृतं ।
द्वाराणां तु तथा प्रोक्तं हेयमाने तथा.........।
तारे पञ्चांशसप्तांशे सप्तांशे तु दशांशके
अन्यर्धं पादहीनं तु द्विगुणं द्विगुणं तु वा
सार्धपादं तु पादं वा द्वारेोत्सेधं तु सत्तथा ।
लिंगस्य मध्यमद्वारे मध्यमं तु वदाम्यहम् ।
शिवानि भूतधातुश्च नवांगुन विशेषतः ।
लिंगमध्ये तु वामे तु द्वारमध्यं प्रयोजयेत् ।
तन्मध्ये गोपुरायाथ ध्रुवपायार्धयोर्मतम् ।
गुणं वश्ये समारभ्य यावदेकोनविंशति
तावत् पङ्किस्तु विस्तारे द्वयमेकं प्रकल्पयेत् ।
यावत् पङ्किस्तु यान्या सेवेतपाय पडिकया ।
विस्तारे पञ्चभागे तु गुणांशं गर्भगृहकम्
शेषं कुड्यविशालं स्यात् ताराण्डं वा प्रहस्तया ।
एवमेकतलं ख्यातं द्वितलं तयोच्यते
विस्तारे सप्तभागं वा आयामे पि तथैव च
युगांशं गर्भगृहं तु शेषं कुड्यविशालकम् ।
एकांशं कर्णकूटं स्यात् गुणांशं गोष्टदैर्घ्यकम्
हारांतरंशिवांशं स्यात् कलह्यमेवं तु मेव वा
विस्तारे सप्तभागं स्यात् नवभाग तथायतम्
शालादीर्घं तु पञ्चांशं आयामे तु प्रकल्पयेत्
हारांतरं तु कूटं च एकैकांशे न कारयेत्
कूटान्तरसमायां शेषं हारान्तरेलिमम् ।
हारान्तराधंमानेन भद्रं वा मद्रपञ्जरम्
द्वितलं ह्येवमाख्यातं त्रितलं चाधुनोच्यते
नवांशं विभषे(जे)त व्यासं च यामं च तथा भवेत्
गर्भगृह गुह्यांशं स्यात शेषांशं प्रहपिण्डकः
[स्तम्भ २]
अलिन्द्रांशैकभागेन हारव्यासं शिवांशकम्
कुर्य्यात्कूटशिवांशेन शालायामं गुणांशकम्
एकांशं पञ्चरं व्यासं अर्धाशं द्वार्योन्तरम्
कल्पयेवं चादिभूम्यान्तं पूर्ववत् शेषवत् भवेत् ।
त्रितलं ह्येवमाख्यातं चतुर्भू भौमथोच्यते
विस्तारे तु दशांशेन गर्भगृह गुणांशकम्
गर्भगृहं तु शेषेण मध्यांशं कुड्यविस्मृतम्
अलिन्द्रं एकभागेन हारव्यासं प्रथा भवेत्
पञ्चरं कर्णकूटं च एकैकांशेन कल्पयेत्
कूटान्तरसमायामं शेषं हारांशपञ्जरम्
शालायामं तु वेदांशं अर्धाशं द्वार्योतरम्
चादिभूम्येवमाख्यातं ऊर्ध्वपूर्वमदाचरेत्
विस्तारे तु दशांशे तु भागांशं तु तथाायतम्
पूर्वे परे च शाला च पञ्चभागेन कल्पयेत्
शेषं पूर्ववदुद्दिष्टं चतुर्भूमिमिदं परम्
चतुर्भूम्येवमाख्यातं पञ्चभूमिमथोच्यते ।
तारमेकादशांशे तु प्रायामं च तथैव च
गुणांशं गर्भगृहं तु द्विभागं मितिविस्तृ(स्तृ)तम्
अलिन्द्रांशैकभागेन हाराभागेन कल्पयेत्
एकांशं पञ्जरं व्यासं ............ व्यासं शिवांशकम्
शालादोर्घं तु वेदांशं कल्पयेवं प्रथमं तलम्
तस्योर्ध्वं भूमि व्यासं पूर्ववत् परिकल्पयेत्
तारं एकादशांशं तु तत् दीर्घं तु त्रयोदश
शालायामं तु पञ्चाशं चायामं तु प्रकल्पयेत्
कूटकोष्टादिसर्गेमिमां प्रागिवेव प्रकल्पयेत्
पाद्रे धिष्ठानयोत्तुंगं मूलप्रासादमूलवत्
चतुष्पञ्चषडंशं वा सप्ताष्टनवमेय वा
दशैकादशभागं तु कृतैका शोपपीठकम्
शेषं तु गुखभागं तु कृत्वैकांशं धरातलम्
द्विभागं चरखोतुं वा कल्पयेत् कल्पवित्तमा
उपपीठ विभागं तु तुंगं पैशापपीठकम्
अथवा हस्तमानेन द्वारमानमथोच्यते
ततुंगं चतुपञ्च षड्सप्ताष्टनवभाधि(जि)ते
दशरुद्रविभागं तु कृत्वैकांशाविशेषतः