मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 461, कुल 856 में से
संदर्भ में पढ़ें४२६ ] मान सारे
जलशरे प्रपामध्ये विन्यसेद्देशिकोत्तमः
पुण्याहं वाचयेत्तत्र जलापानार्थ (र्थं) कं
स्नपनं कारयेत्तत्र जलक्रीडां समाचरेत्
जलमध्ये समापूर्य गंगादीनां समर्पयेत्
तन्मध्ये शाययेद् गौरीं जप्त्वा''''घमर्पणं
रवेरस्तमनात्पूर्वं गौरीमावाह्य देशिकः
जलतीरे प्रपामध्ये विन्यसेत्स्नपनाद्यकैः
संस्त्राप्य कृच्छ्रमावाह्य सर्वालंकारसंयुक्तं
यामप्रवेशनं कुर्याद्यागामंडपचोत्तरे
विन्यसेच्चाष्टमृद्गव्यं भस्मबिल्वदलादिभिः
संस्त्राप्य शुद्धतोयेन गौरीगाङ्गययाबुधः
चित्रवस्त्रैरलं कृत्य गंधपुष्पाक्षगादिभिः
ततो मंडपमासाद्य वास्तुहोमं च माचरेत्
पर्यग्निकरणं कृत्वा स्नात्वा संपूज्य मंडपं
ततः संमृज्यदंडाग्रे वेदिकां प्रोक्षयेत्कुरुः
स्थंडिलं कारयेत् चाष्टतोरणैश्च शालिका
प्रोक्षयेत् हुतयेनैवं पूजयेत्सिंहासनं ततः
गौरीं संपूज्यादाय मंडपा वायुगोचरेत्
विन्यस्यार्चितस्याग्रे रक्षासूत्रं जपे क्रमात्
बद्ध्वाप्रतिसरं चैव आवाह्या (ह्य) देवमंडपे
बद्ध्वाप्रतिसरं मंत्रं जपं घोषपुरःसरं
धूपदीपं ततो दत्वा विवृद्धिक्यार्चनैस्सह
ततो बालालयं गत्वा यात्राहोमं समाचरेत्
कुंभं वा करकं वापि समावाह्य जलेश्वरं
बलिंबिबापरित्यज्य नद्यापि कूपवापिकैः
ततः संपूज्य गंधाद्यैः करकस्थां महेश्वरीं
शिरसा वाहयित्वा तु शंखघोषपुरस्सरं
सर्वालंकारसंयुक्तं मुखमंडपमादिशेत्
इंद्रईशानयोर्मध्ये वेदिकाद्धर्वे तु विन्यसेत्
आदाय चाष्टकरकान् कूर्चपल्लवसंयुतान्
अथवा चित्रवस्त्रेण होमसंयुक्त धावयेत्
दष्टदीक्षा च शयनं कर्णिकामध्ये चांघद्यैर्य-
थामुखं
अथवा चित्रवस्त्रेण शयनं कल्पयेत्ततः
ततो गौरीं व्यायशयते·········'शाययेद् बुधः
संपूज्य गंधपुष्पाद्यैः गौरीमचं तदेशिकः
ततो अग्नित्रयायजन्नं कुर्यात्पूर्वोक्तविधिनाचैनं
सह
समिधाज्यान्नलाजैश्च प्रत्येकं होममाचरेत्
समिधाहृदयमंत्रे शिरसा च घृतं हुनेत्
शिखाया चारुहो दिव्यं विलाजकवचमंत्रतः
गौरीमावाह्य मंत्रेण शिरसा दशवारं हुनेत्सुधीः
शतमर्थे तदर्थे वा द्रव्यं प्रतिहुतं चरेत्
द्रव्यांते व्याहृतिं हुत्वा व्याहृत्यंते स्पृशेत्तमां
वर्धनी चैव संस्पृश्य जप्त्वा जेयाहुति संख्यया
प्रायश्चिता जेयाहुर्ति हुत्वा शतमंत्रेण देशिकः
एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत्
सौरादिकुलशं न्यस्य तदंते होममाचरेत्
ततो गर्मगृहं गत्वा स्थलशुद्धिं समाचरेत्
द्वारद्वारां त्रिधा कृत्वा मध्येशां विभाजिते
तदेकांशं त्रिधा कृत्वा कालांशं दक्षिणे न्यसेत्
व्योमांशं वामभागेन जप्त्वा सूत्रं प्रसारयेत्
तत्सूत्रां तत्सूत्रं स्थाकृतैमर्धं प्रकल्पयेत्
तत्सूत्रं मध्यमे खाप्य गौरीपीठं यथा दृढं
गर्भाष्टाष्टांशके भागे देयिकं स्थापनं कुरु
पीठं प्रक्षाल्य वस्त्रेण पंचगव्याभिषेचयेत्
पीठं मंत्रेण संपूज्य गंधपुष्पादिना बुधः
अस्त्रेणाच्छादनं कुर्यात्प्रसवेनैव देशिकः
ततो यागगृहं गत्वा चास्त्रजं जुहुयाद्धृतं
पादप्रक्षालनं कृत्वा······ चर्यविधिना बुधः
परिचारकसंयुक्तं स्वस्तिसूत्रसमन्वितं
ग····शिविके वाथ खेटके वा रथेपि वा
देवीमारोपयेद्विद्वान् वाद्यघोषसमन्वितं
वितानं छत्रसंयुक्तं धूपदीपसमन्वितं
ग्रामप्रदक्षिणं कृत्वा नोत्वा देशसमन्वितं
संपूज्य विविधद्वारे पुष्पाक्षतसमन्वितं
संपूज्य विविधद्वारं गर्भगेहं प्रविश्य च व
·······································'पुण्याहं वाचयेत्ततः