मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 460, कुल 856 में से
संदर्भ में पढ़ेंपरिशिष्टम् [४२५]
विंशाङ्घपनासिकोपेतं महानासिद्वयान्वितं
नागराभ्युजितं ………………चतुष्पंचरसं युतं
एवं लक्षणसंयुक्तं विमानं विजयावहं
श्रोभोगाद्यष्टकं दिक्षु विधिना दापयेद् बुधः
पार्वतोकोष्ठकांताभ्यामष्टमष्टांतराहुके
कल्पयेदुक्तमार्गेण यथा वित्तानुसारतः
कामकोष्टविधिं प्रोक्तं देवतास्थापनं श्रृणु
देवतास्थापनं
जंभिणी पूर्वदिग्भागे स्तंभिनो न्याद्दक्षिणा न्यसेत्
मोहिनी पश्चिमे देशे भेदिनी चोत्तरे न्यसेत्
कोणे सिंहवृषौ स्थाप्याधवाद्वयसं न्यसेत्
अथवा पूर्वदेशे तु स्थापयेत्तु विचक्षणः
अथवा पूर्वदेशे तु इंद्राणि चैव विन्यसेत्
रौद्रों दक्षिणदेशे तु वारुणे वैष्णवीं न्यसेत्
ब्राह्मीमुत्तरदेशे तु स्थापयेत्तु विचक्षणः
देवतास्थापनं प्रोक्तं देविमानमथ श्रृणु
स्तंभोत्सेधं दशांशे तु भूतांशंकल्पसेोदयं
रसांशं श्रेष्ठमानं तु ततो मध्येपु माजिते
नवधा देविमानं स्यान्नागरं देविमानकं
स्वाधिष्ठानसमं नौचं पादाधिक्यं तु मध्यमं
श्रेष्ठश्रेष्ठं मध्यधिकं मानं द्राविडं देविमानकं
नालीप्रहविशालं स्यान्नवभाग विभाजिते
सप्तांशं उत्तमोत्सेधं भूतांशं कन्यसं भवेत्
तपोमेश्रेष्ठमामानं वेसरं देविमानकं
द्वारोत्सेधविकारांशे ऊर्ध्वाधोंशद्वयं त्यजेत्
शेषं दे विकमान स्यादेतत्सामान्यमेवहि
आयादिशुभसंयुक्तं देविमानं परिग्रहेत्
अंगमानादिकं सर्वं मध्यमं देशवालकं
एवं लक्षणसंयुक्तां देवीं संग्राह्म देशिकाः
ततोंकुरार्पणं कुर्यान्नवमे सप्तमेयवा
पंचमे त्रितये वापि सद्योङ्कुरमथापि वा
बालां देवीं समभ्यर्च्य प्रतिष्ठादिनपूर्वके
शिल्पकर्मावसाने तु गौरीं संग्राहा देशिकाः
पादं पूर्वदिग्भागे मंडपे शालिकोपरि
वस्त्रवस्त्रोखास्तिये कृतस्योर्ध्वे त्खादयेदुद्ध्ववस्त्रकं
प्राक्यः शिरोमहादेवी गौरीगायत्र्यर्चयेत्
वस्त्ररेखाद्याचतां देवीं तन्मूले नैव देशिकाः
तस्य दक्षिणभागे तु स्तंभनं सप्रकल्पयेत्
तस्याः संशरक्षार्थं पूर्वोादोनि यथाक्रमं
मूलमध्ये कुम्भमध्ये समभ्यर्च्य लोकपालास्तथाकान
ग्रहान्
हैमरजतपात्रेव तत्र पात्रेथवा बुधः
कांस्यपात्रेथवा मध्ये कल्पयेच्चंदनेन तु
द्वितेशांगुलविस्तारमष्टांगुलसमन्वितः
चतुश्रसम युक्तं मध्ये पद्मं समालिखेत्
माणिक्यं कर्णिकामध्ये पूर्वे मरतकं न्यसेत्
प्रवालमग्निदिग्भागे इन्द्रनीलं तु याम्यके
नैऋते पुष्परागं स्याद् वज्रं वरुणदिग्भवेत्
गोमेदं वायुदिग्भागे मौक्तिकं सोमदिक्कले
वैडूर्यमीशदेशे तु कामदेवसमन्वितं
अर्चयेद् गंधपुष्पाद्यैः वामादिशक्तिबोजतः
शुद्धवस्त्रेण संछाद्य त्रिदृर्ध्वं तु विन्यसेत
गिरिसुदुर्जमज्ञौ……लेखये……मस्रुचिना
भुरेखां प्रथमं लिख्य नेत्रमंत्रमनुस्मरन्
प्रथमं मधुनालिप्य द्वितीयं सर्पिषा बुधः
तृतीयं पयसा लिप्य चतुर्थं शुल्खवारिणा
पंचमं हिमतोयेन मूलेनैव हि देशिकाः
गंधपुष्पादिमभ्यर्च्य दर्पणं दर्शयेद् बुधः
उत्पलं दर्शयेत्पश्चात्कर्पूरशकलं ततः
क्षीरं च दधिकुंभं च घृतकुंभं च दर्शयेत्
अंजनं कंतुकं चैव सुवस्त्रं केशशोधनं
कंकुमं कृष्णागंधं च शालीभुज्जं तु तंडुलं
तिलमुद्गसमूहं च दर्शयेत्तु विचक्षणः
प्रक्षुब्वपटमावज्रं सवसांग प्रदर्शयेत्
दर्शयेद् ब्रह्मकन्यां च ब्राह्मणानाम् प्रदर्शयेत्
प्राखिनां दर्शयेत् पश्चात् गौरीबीजमनुस्मरन्
ततः संस्नानार्थं देवेशीमाला मंत्रादि सुंदरं
ग्रामं व्रते क्षणं कृत्वा अमृतं सर्वालंकारसंयुक्तं